________________
सूत्रकृताङ्ग विचाराः ।
विचार- | कैश्चिदुच्यते असावपि युक्तिरहितत्वादभ्युपगमकमात्र एवेति । तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थितेः संभवादौदारिकशरीरस्थितेश्च रत्नाकरः
यथायुष्कं कारणमेवं प्रक्षेपाहारोऽपि, तथाहि-तैजसशरीरेण मृदूकृतस्याभ्यवहृतस्य द्रव्यस्य स्वपर्याप्त्या परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण क्षुदुद्भवो भवति वेदनीयोदये सतीयं च सामग्री सर्वाऽपि भगवति केवलिनि संभवति तत्किमर्थमसौ न भुङ्क्त इति ? । न च घातिचतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात्तदभाव इत्युच्येत, तदेवं संसारस्था जीवा विग्रहगतौ
जघन्येनैकं समयम्, उत्कृष्टतः समयत्रयम् । भवस्थकेवली समुद्घातावस्थः समयत्रयमनाहारकः । शैलश्यवस्थायां त्वन्तर्मुहूर्त सिद्धास्तु ||२६||
सादिकमपर्यन्तमनाहारका इति स्थितम् । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धतृतीयाहारपरिज्ञाध्ययने २७१ प्रतौ २१६।२१७ पत्रे ॥ १७ ॥
एते एव च स्त्रीणां मुक्ति न मन्वते । तत्पूर्वोत्तरपक्षौ तु इहैवाग्रे वक्ष्यमाणानन्दीविचारतरङ्गादवसेयौ ॥ १८ ॥
ननु मूर्तामूर्तयोर्जीवकर्मणोः कथं सम्बन्धः येऽपि च क्षीरनीरसुवर्णमृत्तिकादयो दृष्टान्तास्तेऽपि वैधाध्यासिताः, तत्राभयोर्मूर्तत्वात्, Fol इयं हि शङ्का भूयसां चेतांसि मलिनयति । ततस्तदाशङ्कानिरासाय युक्तिसन्दर्भित आगमो लिख्यते
" नत्थि बंधे व मोक्खे वा, नेवं सन्नं निवेसए । अत्थि बंधे व मोक्खे वा, एवं सन्नं निवेसए ॥ १५ ॥" वृत्तिर्यथा-बन्धः प्रकृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः स्वीकरणम् । स चामूर्तस्यात्मनो गगनस्येव न विद्यते, इत्येवं संज्ञां
नो निवेशयेत् । तथा तदभावाच्च मोक्षस्याप्यभावः, इत्येवमपि संज्ञां नो निवेशयेत् कथं तर्हि संज्ञां निवेशयेत्, ? इत्युत्तरार्द्धन दर्शयतिan अस्ति बन्धः कर्मपुद्गलैर्जीवस्येत्येवं संज्ञां निवेशयेदिति । यत्तूच्यते-मूर्तस्यामूर्तिमता सम्बन्धो न युज्यते इति, तदयुक्तम् । आकाशस्य | सर्वव्यापितया पुद्गलैरपि सम्बन्धो दुर्निवार्यः, तदभावे तद्व्यापित्वमेव न स्यात् । अन्यच्चास्य विज्ञानस्य हृत्पूरमदिरादिना विकारः
समुपलभ्यते, न चासौ सम्बन्धमृते, अतो यत्किञ्चिदेतदिति । अपि च संसारिणामसुमतां सदा तैजसकार्मणशरीरसद्भावादात्यन्तिकममूर्त्तत्वं
न भवतीति । तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तदभावे बन्धस्याप्यभावः स्यादित्यतोऽशेषबन्धनापगमस्वभावो मोक्षोऽप्यस्ति, इत्येवं ॐ संज्ञां निवेशयेत् । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धपञ्चमाचारश्रुताख्याध्ययने २७१ प्रतौ २३६ पत्रे ॥ १९ ॥
ननु भगवत्यादौ ऋषभदत्तादय एकादशाङ्गिनः श्रूयन्ते, तत्सम्बन्धाश्चैकादशाङ्गान्त:पातिनः, कथमिदं घटते ? कथं वा द्वादशाझ्या
||२६||