________________
विचार-
|
रत्नाकरः
||२५||
वेदोदयोऽपि विपरीतभावनया निवर्त्तते । तदुक्तम्- “ काम ! जानामि ते मूलं, सङ्कल्पात्किल जायसे । ततस्तं न करिष्यामि, ततो मे न भविष्यसि ॥१॥" हास्यादिषट्कमपि चेतोविकाररूपतया प्रतिसंख्यानेन निवर्तते । क्षुद्वेदनीयं तु रोगशीतोष्णादिवज्जीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण विनिवर्त्तते अतो न मोहस्वभावा क्षुदिति । तदेवं व्यवस्थिते यत्कैश्चिदाग्रहगृहीतैरभिधीयते यथा-" अपवर्त्तते कृतार्थं, नायुर्ज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं, वीर्यं किं गततृषो भुक्तिः ॥ १॥” इति । तदेतत्प्लवते, यतश्छद्मस्थावस्थायामप्येतदस्तीति तत्रापि किमिति भुङ्क्ते ? तत्र समस्तवीर्यान्तरायक्षयाभावाद्धक्तिसद्भावः इति चेत्तदयुक्तम् । यतः किं तत्रायुष्कस्यापवर्त्तनं स्यात् ? किं वा चतुर्णा ज्ञानानां काचिद्धानिः स्यात् ? येन भुक्तिः, इति । तस्माद्यथा दीर्घकालस्थितेरायुष्कं कारणम् एवमाहारोऽपि । यथा सिद्धिगतेय्परतक्रियस्य ध्यानस्य चरमक्षणः कारणम् एवं सम्यक्त्वादिकमपीति । अनन्तवीर्यताऽपि तस्याहारग्रहणे सति न विरुद्ध्यते । यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानि च भवन्ति एवमाहारक्रियाऽपि विरोधाभावात्, न ह्यत्र बलवतरस्य वीर्यवतोऽल्पीयसी क्षुदिति । एवं व्यवस्थिते यत्किञ्चिदेतत् । अपि च-एकादशपरीषहा वेदनीयकृता जिने प्रादुष्पन्ति । अपरे त्वेकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता
इतीयमप्युपपत्तिः केवलिनि भुक्ति साधयति । तथाहि-क्षुत्पिपासाशीतोष्णदंशमशकनाग्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाच्चालाभरोगॐ तृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानदर्शनानि, इत्येते द्वाविंशतिः मुमुक्षूणां परिषोढव्याः परीषहाः । तेषां च मध्ये ज्ञानावरणीयोत्यौ
प्रज्ञाज्ञानाख्यौ, दर्शनमोहनीयसंभवो दर्शनपरीषहो, अन्तरायोत्थोऽलाभपरीषहः, चारित्रमोहनीयसंभवास्त्वमी-नाग्यारतिस्त्रीनिषद्याऽऽक्रोशयाच्चासत्कारपुरस्काराः, एते चैकादशापि जिने केवलिनि न संभवन्ति । तत्कारणानां कर्मणामपगतत्वात्, न हि कारणाभावे क्वचित्कार्योत्पत्तिः, शेषास्त्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात् । ते चामी-क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाख्याः, एते च वेदनीयप्रभवास्तत्र केवलिनि विद्यन्ते । न च निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते; अत: केवलिनि क्षुद्वेदनीयादिपीडा संभाव्यते । केवलमसावनन्तवीर्यत्वान्न विह्वलीभवति । न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडामधिसहते । न च शक्यते वक्तुम् एवंविधमेव तस्य भगवतः शरीरं यदुत क्षुत्पीडया न बाध्यते आहारमन्तरेण च वर्तते, यथा स्वभावेनैव स्वेदादिरहितम् एवं प्रक्षेपाहाररहितमिति । | एतच्चाप्रमाणकत्वादपकर्णनीयम् । अपि च केवलोत्पत्तेः प्राग्भुक्तरभ्युपगमात्केवलोत्पत्तावपि तदेवौदारिकं शरीरमाहाराद्युपस्कार्यं, अथान्यथाभावः
॥२५॥