________________
सूत्रकृताङ्ग विचाराः
विचार- 18| यथाख्यातचारित्रिणो निष्ठितार्थत्वादनन्तवीर्यत्वान्नाहारग्रहणाय कारणीभवति । प्राणवृत्तिस्तु तस्यानपवर्त्तित्वादायुषोऽनन्तवीर्यत्वाच्चान्यथा रत्नाकरः सिद्धव । धर्मचिंतावसरस्त्वपगतो निष्ठितार्थत्वात् । तदेवं केवलिनः कावलिक आहारो बबपायत्वान्न कथञ्चिद्घटते इति स्थितम् ।
अत्रोच्यते । तत्र यत्तावदुक्तं घातिकर्मक्षये केवलज्ञानोत्पत्तावनन्तवीर्यत्वान्न केवलिनो भुक्तिरिति । तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनम् । तथाहि-यदाहारनिमित्तं वेदनीयं कर्म तत्तस्य तथैवास्ते । किमिति शारीरी स्थितिः प्राक्तनी न भवति ?
प्रमाणं च-अस्ति केवलिनो भुक्तिः समग्रसामग्रीकत्वात्पूर्वभुक्तिवत् । सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा-पर्याप्तत्वं वेदनीयोदय: आहारपाक्तिनिमित्तं ||२४|| तैजसशरीरं दीर्घायुष्कत्वं चेति । तानि च समस्तान्यपि केवलिनि सन्ति । यदपि दग्धरज्जुस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयुक्तिसङ्गत्तं
च, आगमे ह्यत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपि-यदि घातिकर्मक्षयाद् ज्ञानादयस्तस्याऽभूवन् वेदनीयोद्भवायाः क्षुधः किमायातं ? येनाऽसौ न भवति । न तयोश्छायातपयोरिव सहानवस्थानलक्षणो नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति । सातासातयोश्चान्तर्मुहूर्त्तपरिवर्त्तमानतया यथा सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वे सत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव । न चाहारग्रहणे तस्य किञ्चित्क्षीयते, केवलमाहोपुरुषिकामात्रमेवेति । यदप्युच्यते वेदनीयस्योदीरणाया अभावात्प्रभूततरपुद्गलोदयाभावः, तदभावाच्चात्यन्तं वेदनीयपीडाऽभावः, इति वाङ्मात्रम् । तथाहि-अविरतसम्यग्दृष्टयादिष्वेकादशसु गुणस्थानकेषु वेदनीयस्य गुणश्रेणीसद्भावात्प्रभूतपुद्गलोदयसंभवः किं तेषु प्राक्तनेभ्योऽधिकपीडासद्भाव ? इति । अपि च यो जिने सातोदयस्तीवः किमसौ प्रचुरपुद्गलोदये ? नेत्यतो यत्किञ्चिदेतदिति । तदेवं सातोदयवदसातोदयोऽप्यनिवारित इति, तयोरत्नर्मुहूर्त्तकालेन परिवर्त्तमानत्वात्, यदपि कैश्चिदभिधीयते-विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासकालं यावदत्यन्तं सातोदय एवेति । असावपि यदि स्यान्न नो बाधायै, केवलिनां भुक्तेरनिवारितत्वात् । यदप्युच्यते आहारविषयाकाङ्क्षारूपा क्षुद्भवति, अभिकाङ्क्षा चाहारपरिग्रहबुद्धिः, सा च मोहनीयविकारस्तस्य चापगतत्वात् केवलिनो न भुक्तिरिति । एतदप्यसमीचीनम् । यतो मोहनीयविपाका क्षुन्न भवति । तद्विपाकस्य प्रतिपक्षभावनया प्रतिसंख्यानेन निवर्त्यमानत्वात् । तथाहि-कषायाः प्रतिकूलभावनया निवर्तन्ते । तथा चोक्तम्-" उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चऽज्जवभावेण, लोहं संतुट्ठिए जिणे ॥१॥" मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रतीतैव ।
||२४|