________________
विचार-
रत्नाकरःविन
||२३||
सति मिथ्यात्वोपहतदृष्टितया अपशकुनोऽयमित्येवं मन्यमानः सन् दृष्टिपथादपसारयन् साधुमुद्दिश्यावज्ञयाऽप्सराया:-चप्पुटिकाया आस्फालयिता भवति । अथवा तत्तिरस्कारमापादयन् परुषं वचो ब्रूयात् । तद्यथा-ओदन (उदर ) मुंड ! निरर्थककायक्लेशपरायणदुर्बुद्धे ! अपसराग्रतस्तदसौ भृकुटि वा विदध्यादसभ्यं वा ब्रूयात् । तथा भिक्षाकालेनापि से-तस्य भिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनुपश्चात्प्रविष्टस्य सतोऽत्यन्तदुष्टतयाऽन्नादे! दापयिता भवति, अपरं च दानोद्यतं निषेधयति । तत्प्रत्यनीकतयैतच्च ब्रूते-ये इमे पाखण्डिका भवन्ति ते एवंभूता भवन्तीत्याह-' वोण्णत्ति' तृणकाष्ठहारादिकं अधर्म कर्म, तद्विद्यते येषां ते तद्वन्तः । तथा भारेण कुटुम्बभारेण पोट्टलिकादिभारेण वाऽऽक्रान्ताः-पराभग्नाः सुखलिप्सवोऽलसा क्रमागतं कुटुम्बकं पालयितुसमर्थास्ते पाखण्डव्रतमाश्रयन्ति । तथा चोक्तम् - "गृहाश्रमपरो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीवाः पाखण्डमाश्रिताः ॥१॥” तथा-' वसलगा' इति, वृषला अधमाः शूद्रजातयस्त्रिवर्गप्रतिचारकास्तथा कृपणा: क्लीवा अकिञ्चित्कराः श्रमणा भवन्ति प्रव्रज्यां गृह्णन्तीति । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धद्वितीयक्रियास्थानाख्याध्ययने २७१ प्रतौ २०४ पत्रे ॥ १७ ॥
एतेन ये केचिज्जैनश्राद्धतया विदिता अपि मुनीनामाहारादि निषेधयन्ति, साधुतया विदिताश्च ये केचन तमुपदेशं ददति ते उभयेऽपि आगाढमिथ्यात्विनो द्रष्टव्याः ।
अपरे च केचन केवलिनामाहारमनागमिकमयौक्तिकं च मन्यते ततस्तदवबोधाय तत्र युक्त्यागमौ लिख्येतें
"अंतोमुत्तमद्धा, सेलेसीए भवे अणाहारो । सादीयमणिधणं पुण, सिद्धाणाहारगा होति ।। ८॥" ' अंतोमुहुत्तमित्यादि' । शैलेश्यवस्थाया आरभ्य सर्वथाऽनाहारकः सिद्धावस्थाप्राप्तावनन्तमपि कालं यावदिति । पूर्वं तु कावलिकव्यतिरेकेण प्रतिसमयमाहारकः । कावलिकेन तु कादाचित्क इति । ननु केवलिनो घातिकर्मक्षयेऽनन्तवीर्यत्वान्न भवत्येव कावलिकाहारः । तथाहि-आहारादाने यानि वेदनीयादीनि षट् कारणान्यभिहितानि तेषां मध्ये एकमपि न विद्यते केवलिनि, तत्कथमसावाहारं बहुदोषदुष्टं गृह्णीयात् ? । तत्र न तावत्तस्य वेदनोत्पद्यते, तद्वेदनीयस्य दग्धरज्जुस्थानिकत्वात्सत्यामपि न तस्य तत्कृता पीडा, अनन्तवीर्यत्वात् । वैयावृत्यकारणं तु भगवति सुरासुरनराधिपतिपूज्यत्वे न संभाव्यते एवेति । ईर्यापथः( थं ) केवलज्ञानावरणपरिक्षयात् सम्यगवलोकयत्येवासौ । संयमस्तु तस्य
||२३||