________________
विचार- रत्नाकरः
||२0॥
सति समुदिते सम्यक्त्वसद्भावः ?, न हि यत्प्रत्येकं नास्ति तत्समुदाये भवितुमर्हति, सिकतातैलवत् । नैतदस्ति । प्रत्येकं पद्मरागादिमणि-8| सूत्रकृताङ्ग ध्वविद्यमानाऽपि रत्नावली समुदाये भवन्ती दृष्टा । न हि दृष्टेऽनुपपन्नं नामेति यत्किञ्चिदेतत् । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धद्वादशाध्ययने
विचाराः २७१ प्रतौ १३४ पत्रे ॥ १४ ॥
अत्र केषाञ्चिदन्यदर्शनिनामपि ज्योतिर्निमित्तशकुनादिभि विवस्तुसंवादीनि ज्ञानान्यालोक्याविदितपरमार्थैरहो एतेऽप्यतिशयवन्तः प्रशस्या इति व्यामोहो न विधेयः । तेषां तद्गतानामपि ज्योतिर्निमित्तादिज्ञानानां पूर्वान्तःपातित्वेन गणधरप्रणीतत्वात् । तत्र चागम्:
“संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उपाइयं च । अटुंगमेयं बहवे अहित्ता, लोगसि जाणंति अणागयाइं ॥९॥" 'संवत्सरमित्यादि' सांवत्सरं ज्योतिष, स्वप्नप्रतिपादको ग्रन्थः स्वप्नस्तमधीत्य, लक्षणं श्रीवत्सादिकं, च शब्दादान्तरबाह्यभेदभिन्नं, निमित्तं वाक्प्रशस्तशकुनादिकम्, देहे भवं दैह मषतिलकादिकम्, उत्पाते भवमौत्पातिकमुल्कापातदिग्दाहनिर्घातभूमिकंपादिकम्, तथाऽष्टाङ्गं च निमित्तमधीत्य । तद्यथा- भौममुत्पातं स्वर्ण आन्तरिक्षं आङ्गं स्वरं लक्षणं व्यञ्जनं इत्येवंरूपं नवमपूर्वतृतीयाचारवस्तुविनिर्गतं सुखदुःखजीवितमरणलाभालाभादिसंसूचकं निमित्तमधीत्य लोकेऽस्मिन्नतीतानि वस्तूनि अनागतानि च जानन्ति परिच्छिदन्ति । न च शून्यादिवादेष्वेतद्घटते, तस्मादप्रमाणमेव तैरभिधीयते, इत्येवं व्याख्याते सति आह पर:-ननु व्यभिचार्यपि श्रुतमुपलभ्यते । तथाहि-चतुर्दशपूर्वविदामपि षट्स्थानपतित्वमागम उद्देष्यते, किं पुनरष्टाङ्गनिमित्तशास्त्रविदाम् ? । अत्र चाईवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छंदसाऽर्द्धत्रयोदशशतानि सूत्रम्, तावन्त्येव सहस्राणि वृत्तिः, तावत्प्रमाणलक्षा परिभाषेति । अङ्गस्यार्द्धत्रयोदशसहस्राणि सूत्रम्, तावत्परिमाणलक्षा वृत्तिः, अपरिमितं वार्त्तिकमिति ॥ ९ ॥ तदेवमष्टाङ्गनिमित्तवेदिनामपि परस्परतः षट्स्थानपतित्वेन व्यभिचारित्वमत इदमाह-" केई निमित्ता तहिया भवंति, केसिंच तं विप्पडिएति णाणं । ते विज्जभावं अणहिज्जमाणा, आहेसु विज्जापरिमोक्खमेव । ( जाणाम लोगसि वयंति मंदा ) ॥ १०॥" 'केई णिमित्ता इत्यादि' छान्दसत्वात्प्राकृतशैल्या वा लिङ्गव्यत्ययः कानिचिन्निमित्तानि तथ्यानि सत्यानि भवन्ति । केषाञ्चित्तु निमित्तानां | निमित्तवेदिनां वा बुद्धिवैकल्यात्तथाविधक्षयोपशमाभावेन तन्निमित्तज्ञानं विपर्यासं-व्यत्ययमेति । आर्हतानामपि निमित्तव्यभिचारः समुपलभ्यते, किं पुनरन्यतीर्थिकानां ( स्तीथिकानाम् ) । तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्य ते अक्रियावादिनो विद्यासद्भावमनधीयमानाः सन्तो