________________
विचार-18 निमित्तं तथा चान्यथा च भवतीति मत्वा ते आहेसु विज्जा परिमोक्खमेव' विद्याया:-श्रुतस्य व्यभिचारेण तस्य परिमोक्ष-परित्यागमाहुरुक्तवन्तः
। यदि वा क्रियाया अभावाद्विद्यया-ज्ञानेनैव मोक्षं सर्वकर्मच्युतिलक्षणमाहुरिति । क्वचिच्चरमपादस्यैवं पाठः-' जाणाम लोगसि वयंति मंदा त्ति' विद्यामनधीत्यैव स्वयमेव लोकमस्मिन् वा लोके भावान्वयं जानीमः, एवं मन्दा-जडा वदन्ति । नच निमित्तस्य तथ्यता । तथाहिकस्यचित्क्वचित्क्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात्, शकुनसद्भावेपि कार्यविघातदर्शनात्, अतो निमित्तबलेनादेशविधायिनां मृषावाद एव
केवलमिति । नैतदस्ति । नहि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति । यदपि षट्स्थानपतित्वमुपुष्यते तदपि पुरुषाश्रितक्षयोपशमवशेन 1129॥
।नच प्रमाणाभासव्यभिचारे सम्यक्प्रमाणव्यभिचारशङ्का कर्तुं युज्यते । तथाहि-मरुमरीचिकाजले (निचये) जलग्राहिप्रत्यक्षं व्यभिचरतीतिकृत्वा किं सत्यजलग्राहिणोऽपि प्रत्यक्षस्य व्यभिचारो युक्तिसङ्गत्तो भवति ? । नहि मशकवर्त्तिरग्निसिद्धावुपदिश्यमाना व्यभिचारिणीति सत्यधूमस्यापि व्यभिचारो । नहि सुविवेचितं कार्यं कारणं व्यभिचरतीति । ततश्च प्रमातुरयमपराधो न प्रमाणस्य । एवं सुविवेचितं निमित्तश्रुतमपि न व्यभिचारीति । यश्च क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शङ्कयते, सोऽनुपपन्नः । तथाहि-कार्याकूतात्क्षुतेऽपि गच्छतो या कार्यसिद्धिः साऽपान्तरालेतरशोभननिमित्तबलात्सञ्जातेत्येवमवगन्तव्यम् । शोभननिमित्तप्रस्थितस्यापीतरनिमित्तबलात्कार्यव्याघात इति । तथा च श्रुतिःकिल बुद्धः स्वशिष्यानाहुयोक्तवान् यथा-द्वादशवार्षिकमत्र दुर्भिक्षं भविष्यत्यतो देशान्तराणि गच्छत यूयम् । ते च तद्वचनाद्गच्छन्तस्तेनैव प्रतिषिद्धाः यथा-मा गच्छत यूयम् । इहाद्यैव पुण्यवान् महासत्त्वः सञ्जातः, तत्प्रभावात्सुभिक्षं भविष्यति । तदेवमन्तरापरनिमित्तसद्भावान्न तद्व्यभिचारशङ्केति स्थितम् । इति श्रीसूत्रकृताङ्गप्रथमश्रुतस्कन्धे द्वादशे समवसरणाध्ययने २७१ प्रतौ १४७ पत्रे ॥ १५ ॥
एतेन ये केचन वदन्ति शकुनादिनिमित्तमनैकान्तिकत्वाव्यभिचारित्वाच्चान्वयव्यतिरेकाभ्यामप्रमाणमिति तेऽपि निरस्ता वेदितव्याः॥
केचिच्चाऽत्रामुद्राज्ञाननिद्रामुद्रितान्त:करणा: स्वमतविशेषदर्शनाय च स्त्रीषु नाग्न्यमेव विशेषः, इति न्यायमङ्गीकृत्य यथोक्तावसरविधेयामपि वाङ्मात्रेण निद्रां निषिद्ध्य स्वपाण्डित्यं दर्शयन्ति । स च गृहज्वालनात्कीर्षुत्पादनमयमेव न्यायः, शास्त्रे निद्राकालस्याप्युक्तत्वात्, स • चायं सूत्रार्थाभ्यां लिख्यते
"संजमंजायामायावत्तियं बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा । अन्नं अन्नकाले, पाणं पाणकाले, वत्थं वत्थकाले,
|२१||