________________
"
विचार- 188 कालो हि दुरतिक्रमः ॥ १ ॥ " तथाऽस्ति स्वभावोऽपि कारणत्वेनाशेषस्य जगतः स्वो भाव: स्वभाव इति कृत्वा, तेन हि रत्नाकरः। 88 जीवाजीवभव्यत्वाभव्यत्वमूर्त्तत्वामूर्त्तत्वानां स्वस्वरूपानुविधानात् । तथा धर्माधर्माकाशकालादीनां च गतिस्थित्यवगाहपरत्वापरत्वादिस्वरूपापादनादिति । तथाचोक्तम्- ' क कण्टकानां ' इत्यादि । तथा नियतिरपि कारणत्वेनाश्रीयते । तथा पदार्थानां नियतेरेव निष्पन्नत्वात् । तथाचोक्तम्“प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १ ॥ ” तथा पुराकृतं तच्च शुभाशुभमिष्टानिष्टफलकारणम् । तथा चोत्कम्-" यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिहोपतिष्ठते । तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मति: प्रवर्त्तते ॥ १ ॥ " तथा " स्वकर्मणा युक्त एव, सर्वो ह्युत्पद्यते जनः । स तथा कृष्यते तेन न यथा स्वयमिच्छति ॥ २ ॥ " इत्यादि । तथा पुरुषकारोऽपि कारणं, यस्मान्न पुरुषकारमन्तरेण किञ्चित्सिध्यति । तथा चोक्तम्- " न दैवमिति सञ्चिन्त्य त्यजेदुद्योगमात्मनः । अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ? ॥ १ ॥ ' तथा-" उद्यमाच्चारुचित्राङ्गि ! नरो भद्राणि पश्यति । उद्यमात्कृमिकीटोऽपि भिनत्ति महतो द्रुमान् ।। २ ।। " तदेवं सर्वानपि कालादीन् कारणत्वेनाभ्युपगच्छंस्तथाऽऽत्मपुण्यपापपरलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाभ्युपगन्तव्यः । शेषकास्तु वादा अक्रियावादाज्ञानवादवैनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः, तथाहि अक्रियावादी अत्यन्तनास्तिकोऽध्यक्षसिद्धं जीवाजीवादिपदार्थजातमपहनुवन्मिथ्यादृष्टिरेव भवति अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्शके ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवं वदन् कथं नोन्मत्तः स्यात् ? । तथा विनयवाद्यपि विनयादेव केवलाद् ज्ञानक्रियासाध्यां सिद्धिमिच्छन्नपकर्णयितव्यः । तदेवं विपरीतार्थाभिधायितयैते मिथ्यादृष्टयोऽवगन्तव्याः । ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तः, तत्कथमिह सम्यग्दृष्टित्वेनोच्यत इति, उच्यते, स तत्रास्त्येव जीव इत्येवं सावधारणतयाऽभ्युपगमं कुर्वंस्तथा काल एवैकः सर्वस्यास्य जगतः कारणम् तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एवेत्येवमपरनिरपेक्षतयैकान्तेन कालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वम् । तथाहि अस्त्येव जीव इत्येवमस्तिना सह जीवस्य सामान्याधिकरण्याद्यदस्ति तज्जीव इत्येवं प्राप्तमतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्वमभिहितम् । तथा कालादीनामपि समुदितानां परस्परसव्यपेक्षाणां कारणत्वेनेहाश्रयणादिह सम्यक्त्वमभिहितमिति । ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वस्वभावत्वे
1198 11
ဒီ
1198 11