________________
सूत्रकृताङ्ग विचाराः
विचार- 288| -पर्यायभेदाच्चतुर्विऽधम् । अज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदात्रिविधिम्, दर्शनं चक्षुरचक्षुरवधिदर्शनभेदात्रिविधम्, लब्धिः दानलाभभोगोपभोगरत्नाकरः वीर्यभेदात्पञ्चधा, सम्यक्त्वचारित्रसंयमासंयमाः प्रत्येकमेकैकप्रकारा इति ३। क्षायिको नवप्रकारः । तद्यथा-केवलज्ञानं केवलदर्शनं
दानादिलब्धयः पञ्च सम्यक्त्वं चारित्रं चेति ४। जीवत्वभव्यत्वाभव्यत्वभेदात्पारिणामिकस्त्रिविधः ५। सान्निपातिकस्तु द्वित्रिचतुःपञ्चकसंयोगैर्भवति । तत्र द्विकसंयोगः सिद्धस्य क्षायिकपारिणामिकभावद्वयसद्भावादवगन्तव्यः । त्रिकसंयोगस्तु मिथ्यादृष्टिसम्यग्दृष्ट्य
विरतविरतानामौदयिकक्षायोपशमिकपारिणामिकभावसद्भावादवगंतव्यः, तथा भवस्थकेवलिनोऽप्यौदयिकक्षायिकपारिणामिकभावसद्भावाद्विज्ञेय ||१८|| इति । चतुष्कसंयोगोपि क्षायिकसम्यदृष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावसद्भावात्, तथौपशमिक-सम्यग्दृष्टीनामौद
यिकौपशमिकक्षायोपशमिकपारिणामिकभावसद्भावाच्चति । पञ्चकसंयोगस्तु क्षायिकसम्यग्दृष्टीनामुपशमश्रेण्यां समस्तोपशान्तचारित्रमोहानां
भावपञ्चकसद्भावाद्विज्ञेय इति । तदेवं भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगात्संभविन: सान्निपातिकभेदाः षड् भवन्ति । एत एव leel त्रिकसंयोगचतुष्कसंयोगगतिभेदात् पञ्चदशधा प्रदेशान्तरेऽभिहिताः । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धद्वादश-समवसरणाध्ययननियुक्तिगाथा २७१ प्रतौ १२७ पत्रे ॥ १३ ॥
अत्र केचित्कठिनहठाः प्राक्कृतकमैकप्राधान्यवादिनः केचिच्चोद्यमप्राधान्यैकवादिन एवं कालादिप्राधान्यवादिनोऽपि, तच्चासत् । Pol जैनसिद्धान्तवेदिभिस्तु समुदाय एव प्राधान्येन वाच्य इत्यर्थसूचको विचारो लिख्यतेla इदानीं तेषां सम्यग्मिथ्यावादित्वं विभागेन यथा भवति तथा दर्शयितुमाह-" सम्मद्दिडी किरियावादी मिच्छा य सेसगा वादी ।
जहिऊण मिच्छवाय, सेवह वायं इमं सच्चं ॥ ६॥" 'सम्मढिीत्यादि' सम्यगविपरीता दृष्टिदर्शनं पदार्थपरिच्छित्तिर्यस्याऽसौ सम्यग्दृष्टिः । कोऽसावित्याह-क्रियामस्तीत्येवंभूतां वदितुं शीलमस्येति क्रियावादी । अत्र क्रियावादीत्येतत् ' अस्थित्ति किरियवादी' इत्यनेन प्राक्प्रसाधितं सदनूद्य सम्यग्दृष्टित्वं विधीयते, तस्यासिद्धत्वादिति । तथाहि-अस्ति लोकालोकविभागः । अस्त्यात्मा । अस्ति पुण्यपापविभागः । अस्ति तत्फलं स्वर्गनरकावाप्निलक्षणम् । अस्ति काल: कारणत्वेनाऽशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतोष्णदावनस्पतिपुष्पफलादिषु चेति । तथा चोक्तम्-“ काल: पचति भूतानि, काल: संहरते प्रजाः । काल: सुप्तेषु जागर्ति,
सूचको विचारो -" सम्मट्ठिी किर्शनं पदार्थप
॥१८॥