________________
विचाररत्नाकरः
988
||१७||
“जे अदाणं पसंसंति, वहमिच्छंति पाणिणं । जे अणं पडिसेहंति, वित्तिच्छेयं, करंति ते ॥ २० ॥” 'जे अदाणमित्यादि 'ये केचन प्रपासत्रादिकं दानं बहूनां जन्तूनामुपकारीतिकृत्वा प्रशंसन्ति-श्लाघन्ते, ते परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण वधंप्राणातिपातमिच्छन्ति । तदानस्य प्राणातिपातमन्तरेणानुपपत्तेः । येऽपि च किल सूक्ष्मधियो वयमित्येवं मन्यमाना आगमसद्धावानभिज्ञाः प्रतिषेधयन्ति-निषेधयंति, तेऽप्यगीतार्थाः प्राणिनां वृत्तिच्छेद-वर्तनोपायविघ्नं कुर्वन्तीति ॥ २० ॥ तदेवं राज्ञा अन्येन वेश्वरेण कूपतडागयागसत्रदानाद्युद्यतेन पुण्यसद्भावं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाह-" दुहओवि ते ण भासंति, अस्थि वा नत्थि वा पुणो । आयं रयस्स हेच्चा णं, निव्वाणं पाउणंति ते ॥ २१॥" 'दुहओवीत्यादि' यद्यस्ति पुण्यमित्येवमूचुः ततोऽनन्तानां सत्त्वानां सूक्ष्माणां बादराणां सर्वदा प्राणत्याग एव स्यात् । प्रीणनमात्रं तु पुनः स्वल्पानां स्वल्पकालीयमतोऽस्तीति न वक्तव्यम् । नास्ति पुण्यमित्येवं प्रतिषेधेऽपि तदर्थिनामन्तरायः स्यादित्यतो द्विधाप्यस्ति नास्ति वा पुण्यमित्येवं ते मुमुक्षवः साधवः पुनर्न भाषन्ते, किं तु पृष्टैः सद्भिर्मीनं समाश्रयणीयम् । निर्बन्धे त्वस्माकं द्विचत्वारिंशद्दोषवर्जित आहारः कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति, उक्तंच-" सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं, व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं, तेनोदासीनभावं व्रजति मुनिगण: कूपवप्रादिकार्ये ॥ १॥" तदेवमुभयथापि भाषिते रजस:-कर्मण आयो लाभो भवति अतस्तमायं रजसो मौनेनानवद्यभाषणेन वा हित्वा-त्यक्त्वा तेऽनवद्यभाषिणो निर्वाणं-मोक्षं प्राप्नुवन्ति ॥ २१॥ इति सूत्रकृताङ्गप्रथमश्रुतस्कन्थैकादशमोक्षमार्गाध्ययने २७१ प्रतौ १२४ पत्रे ॥ १२ ॥
औदयिकादिभावस्वरूपं जिज्ञासया लिख्यते
"भावसमोसरणं पुण, णायव्वं छविहंमि भावंमि । अहवा किरिय अकिरिया, अण्णाणी चेव वेणइया ॥२॥" 'भावसमोसरणमित्यादि' भावानामौदयिकादीनां समवसरणमेकत्र मेलापको भावसमवसरणम् । तत्रौदयिको भाव एकविंशतिभेदः । तद्यथागतिश्चतुर्धा, कषायाश्चतुर्विधाः, एवं लिङ्गं त्रिविधम्, मिथ्यात्वाज्ञानासंयतत्वासिद्धत्वानि प्रत्येकमेकैकविधानि, लेश्याः कृष्णादिभेदेन षड्विधा भवन्ति श औपशमिको द्विविधः, सम्यक्त्वचारित्रोपशमभेदात् २शक्षायोपशमिकोऽष्टादशभेदः । तद्यथा-ज्ञानं मतिश्रुतावधिमनः
|१७||