________________
||१५||
विचार-10 च, तथा तापादिनिवारणाय छत्रं, तथा नालिका द्यूतक्रीडाविशेषस्तथा वालैर्मयूरपिच्छैर्वा व्यजनकं, तथा परेषां सम्बन्धिनी क्रियामन्योन्यं -
परस्परतोऽन्यनिष्पाद्यामन्यः करोत्यपरनिष्पाद्यां चापर इति, चः समुच्चये, तदेतत्सर्वं विद्वान् पण्डितः कर्मोपादानकारणत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । इति श्रीसूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमधर्माध्ययने २७१ प्रतौ १०२ पत्रे ॥ ८ ॥
केचिदविदितपरमार्थाः “ पाडिहारियपीढफलग" इत्यादि दर्शयन्तो गृहस्थवस्त्रव्यापारणं स्वीकुर्वते तच्चासङ्गतम् । येन पाडिहारिय ॐ इति, प्रतिगृहीतत्वेन पीढफलकादिविशेषणं मन्तव्यम् । तथैव च गृहस्थवस्त्रपात्रभोगनिषेधः श्रूयते सिद्धान्ते, स चायम्
“परमत्ते अन्नपाणं न भुंजेज्ज कयाइ वि । परवत्थं अचेलो वि, तं विज्जं परिजाणिया ॥ २०॥" " परमत्ते" इत्यादि, परस्य गृहस्थस्यामनं भाजनं परामत्रम्, तत्र पुरःकर्मपश्चात्कर्मभयात् (तद्भयात्) हृतनष्टादिदोषसम्भवाच्चान्नं पानं च मुनिर्न कदाचिदपि भुञ्जीत, यदि वा पतग्रहधारिणश्छिद्रपाणे: पाणिपात्रं परपात्रम्, यदि वा पाणिपात्रस्याच्छिद्रपाणेर्जिनकल्पिकादेः पतद्ग्रहः परपात्रं तत्र संयमविराधनाभयान भूञ्जीत । तथा परस्य गृहस्थस्य वस्त्रं परवस्त्रम्, तत्साधुरचेलोऽपि सन् पश्चात्कर्मादिदोषभयात् हृतनष्टादिदोषसंभवाच्च न बिभृयात्, यदि वा जिनकल्पिकोऽचेलो भूत्वा सर्वमपि वस्त्रं परवस्त्रमिति कृत्वा न बिभृयात् । तदेतत्सर्वं परपात्रभोजनादिकं संयमविराधकत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमाध्ययने २७१ प्रतौ १०२ पत्रे ॥ ९ ॥
एतेन प्रतिग्रामं ये गृहस्थस्य घटादिपात्रं व्यापारयन्ति, ते निरस्ता द्रष्टव्याः ।।।
केचिदिह कुमतितमस्विनीयक्त्यमुक्त्यध्वानः प्रतिपदमागमोक्तमपि योगोद्वहनमस्वीकुर्वाणाः सिद्धान्तपदान्यगारिणामगणिताशातनाः पाठयन्ति । ते च संसारं पल्लवयन्ति सिद्धान्तनिषिद्धत्वात् । निषेधश्चैतद्गाथातात्पर्यार्थावगमगम्यः, सा चेयम्
“गिहे दीवमपासंता, पुरिसादाणिया नरा ते । वीरा बंधणुम्मुक्का, नावकंखंति जीवियं ॥ ३४ ॥ " "गिहे दीवं' इत्यादि, गृहे गृहवासे गृहपाशे वा गृहस्थभाव इति यावत्, 'दीवं ति' दीपी दीप्तौ, दीपयति प्रकाशयतीति दीपः, स च भावदीपः श्रुतज्ञानलाभः,
यदि वा द्वीप: समुद्रादौ प्राणिनामावासभूतः, स च भावद्वीपः संसारसमुद्रे सर्वज्ञोक्तचारित्रलाभस्तदेवंभूतं दीपं द्वीपं वा गृहस्थभावेऽपश्यन्त hol अप्राप्नुवन्तः सन्तः सम्यक् प्रव्रज्योत्थानेनोत्थिता उत्तरोत्तरगुणलाभेनैवंभूता भवन्तीति दर्शयति-नराः पुरुषाः पुरुषोत्तमत्वाद्धर्मस्य नरोपादनमन्यथा l
11१५||