________________
विचार- 8 किं कुर्यादित्याह-विकटेन प्रासुकोदकेन सौवीरादिना जीव्यात्प्राणधारणं कुर्यात् । च शब्दादन्येनाप्याहारेण प्राशुकेनैव प्राणवृत्तिं कुर्यात् । | सूत्रकृताङ्ग नाकर आदिः संसारस्तस्मान्मोक्ष आदिमोक्षः संसारविमुक्ति यावदिति, धर्मकारणानां वादिभूतं शरीरं तद्विमुक्ति यावत्, यावज्जीवमित्यर्थः।
विचाराः किं चासौ साधुर्बीजकन्दादीनभूञ्जानः । आदि ग्रहणान्मूलपत्रफलादीनि गृह्यन्ते, एतान्यप्यपरिणतानि परिहरन् विरतो भवति । कुतः ? इति दर्शयति-स्नानाभ्यङ्गोद्वर्तनादिक्रियासु निःप्रतिकर्मशरीरतयाऽन्यासु च चिकित्सादिक्रियासु न वर्तते, तथा स्त्रीषु च विरतः । वस्तिनिरोधग्रहणादन्ये
ऽप्याश्रवा गृह्यन्ते । यश्चैवंभूतः सर्वेभ्योऽप्याश्रवद्वारेभ्यो विरतो नासौ कुशीलदोषैर्युज्यते, तदयोगाच्च न संसारं बभ्रमीति । इति 11१४
सूत्रकृताङ्गप्रथमश्रुतस्कन्धकुशीलपरिभाषानाम्नि सप्तमाध्ययने २७१ प्रतौ ९६ पत्रे ॥ ६ ॥
मुनीनामाहाराद्यर्थं गृहस्थप्रशंसनं परमापायकारणमिति जिज्ञापयिषया लिख्यते
“णिक्खम्म दीण परभोयणंमि, मुहमंगलिए उदराणुगिद्धे । नीवारगिद्धे व महावराहे, अदूरए एहति घातमेव ॥ २५ ॥” यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्त्वा निष्क्रान्तो निष्क्रम्य च परभोजने पराहारविषये दीनो दैन्यमुपगतो जिह्वेन्द्रियवशादातॊ बन्दिवन्मुखमाङ्गलिको भवति, मुखेन मङ्गलानि प्रशंसावाक्यानीदृशस्तादृशस्त्वमित्येवं दैन्यभावमुपगतो वक्ति । यदुक्तम्-" सो एसो जस्स गुणा, विअरंतनिवारिया दसदिसासु । इहरा कहासु सुच्चसि, पच्चक्खं अज्ज दिट्ठोसि ॥ १॥” इत्येवमौदर्य प्रतिगृद्धोऽध्युपपन्नः किमिव ? नीवारः शूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध आसक्तमना गृहीत्वा च स्वयूथं महावराहो महाकायः शूकरः, स चाहारमात्रगृद्धोऽतिसङ्कटे प्रविष्टः सन्नदूर एव शीध्रमेव घातं विनाशमेष्यति प्राप्स्यति । एवकारोऽवधारणे । अवश्यं तस्य विनाश एव नापरा गतिरस्तीति । एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौन:पुन्येन विनाशमेवैति । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धकशीलपरिभाषानाम्नि सप्तमाध्ययने २७१ प्रतौ ९७ पत्रे ॥७॥
साधूनां परस्परक्रिया“ अहं त्वदीयं पात्रं सज्जीकरोमि, त्वं मदीयं वस्त्रं सज्जीकुरु" इत्यादिरूपा न कल्पते इत्यादिप्रतिपादनपरा गाथा लिख्यते
||१४|| " पाणहाउ य छत्तं च, णालीयं वालवीयणं । परकिरियं अन्नमन्नं च तं विज्जं परिजाणिया ॥ १८ ॥" उपानही काष्ठपादुके