________________
रत्नाकरः
निःसन्, इति क्लिन्नालादिभिः
विचार- भगवद्भिः प्रतिपादितत्वात्, इतरथा उक्तस्यापि साधर्मिकवात्सल्यस्य निषिद्धत्वापत्तेविराधनायास्तुल्यत्वादिति ।
केचिच्च देवगुर्वादिपुरतः स्वस्तिकादिरचनां न स्वीकुर्वते तेऽज्ञानिनो वेदितव्याः । यतः साधुस्तान्यर्चनवन्दनादीनि मनसाऽपि न प्रार्थयेत् । गृहस्थैस्तु गुरुभक्त्या तानि कर्तव्यान्येव अन्यथा तत्रैवोक्तानां क्रियमाणानां च वन्दनादीनामप्यकर्त्तव्यतापत्तेः । अक्षराणि Nave चेमानि-अच्चणं सेवणं चेव, वंदणं पूयणं तहा । इड्डीसक्कारसम्माणं, मणसावि न पत्थए ॥ १८ ॥ इति पञ्चत्रिंशोत्तराध्ययने ॥ १७ ॥
अथ देवपूजाविधिविचारा यथा||२४९।
शुचिरिति-मलोत्सर्गदन्तधावनजिह्वालेखनगंडूषकरणसर्वदेशस्नानादिना पवित्रः सन्, इति श्राद्धविधौ । १८ ।
ततः पवित्रमृदुगन्धकाषायिकाद्यंशुकेनाङ्गरूक्षणपौतिकमोचनपवित्रवस्त्रान्तरपरिधानादियुक्त्या क्लिन्नाघ्रिभ्यां भूमिमस्पृशन् पवित्रस्थानमागत्योत्तरामुखः संव्ययते नव्यमव्यङ्गमकीलितं पृथुलं श्वेतांशुकद्वयम् । “ विशुद्धिर्वपुषः कार्या, यथायोगं जलादिभिः । धौते सिते वसीत द्वे, विशुद्धे धूपधूपिते ॥१॥" लोकेऽप्युक्तम्-“ न कुर्यात्सन्धितं वस्त्रं, देवकर्मणि भुमिप !। न दग्धं न तु वैच्छिन्नं, परस्य तु न धारयेत् ॥ २ ॥ कटिस्पृष्टं तु यद्वस्त्रं, पुरीषं येन कारितम् । समूत्रं मैथुनं चाऽपि, तद्वस्त्रं परिवर्जयेत् ॥ ३ ॥ एकवस्त्रो न भुञ्जीत, न कुर्याद्देवतार्चनम् । न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन तु ॥ ४॥" एवं हि पुंसां वस्त्रद्वयं स्त्रीणां च वस्त्रत्रयं विना न कल्पते देवार्चादि । इति श्राद्धविधौ ॥ १८ ॥
न च दुकूलं भोजनादिकरणेऽपि सर्वदा पवित्रमेवेति लोकोक्तिरत्र प्रमाणयितव्या, किं त्वन्यधौतिकवहुकूलमपि भोजनमलमूत्रा• शुचिस्पर्शवर्जनादिना सत्यापनीयम् व्यापारणानुसारेण पुनः पुनर्धावनधूपनादिना पावनीयम्, धौतिकं च स्वल्पवेलमेव व्यापार्य, प्रस्वेदश्लेष्मादि च धौतिकेन न स्फेटनीयम्, अपावित्र्यप्रसक्तेः, व्यापारितवस्त्रान्तरेभ्यश्च पृथग् मोच्यम् । इति श्राद्धविधौ ॥ १९ ।।
एवं द्रव्यभावाभ्यां शुचिर्गृहे गृहचैत्ये-“ आश्रयन् दक्षिणां शाखां, पुमान् योषित्त्वदक्षिणाम् । यत्नपूर्वं प्रविश्यान्तर्दक्षिणेनाज्रिणा ततः ॥ १॥ सुगन्धिमधुरैर्दव्यैः, प्राङ्मुखो वाऽप्युदङ्मुखः । वामनाड्यां प्रवृत्तायां, मौनवान् देवमर्चयेत् ॥ २ ॥” इत्याद्युक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्तनादिकेन विधिना शुचिपट्टकादौ पद्मासनादिसुखासनासीनश्चन्दनभाजनाच्चनदनं स्थानान्तरे हस्ततले वा
||२४९॥