________________
प्राविधि
रत्नाकरः।
विचाराः
8888888888888
प्रक्षिप्य कृतभालतिलकहस्तकङ्कणः श्रीचन्दनचर्चितहस्तद्वयो जिनमर्हन्तं पूजयित्वा वक्ष्यमाणाभिरङ्गाग्रभावपूजाभिरभ्यर्च्य संवरणं प्रत्याख्यानं प्राक्कृतमकृतं वा यथाशक्ति करोति । इति श्राद्धविधौ ॥ २० ॥
अथोपोषणे पोरुष्यादिप्रत्याख्याने वा देवमर्चयतो न दन्तधावनापेक्षेत्यक्षराणि लिख्यन्ते
उपवासपौरुष्यादिप्रत्याख्यानिनस्तु दन्तधावनादि विनाऽपि शुद्धिरेव, तपसो महाफलत्वात् । लोकेऽपि उपवासादौ दन्तकाष्ठादि
विनाऽपि देवार्चादिकरणात् । निषिद्धं च लौकिकशास्त्रेऽप्युपवासादौ दन्तकाष्ठादि । यदुक्तं विष्णुभक्तिचन्द्रोदये “ प्रतिपदर्शषष्ठीषु, 1॥२५01
मध्यान्ते नवमीतिथौ । सङ्क्रातिदिवसे प्राप्ते, न कुर्याद्दन्तधावनम् ॥१॥ उपवासे तथा श्राद्धे, न कुर्याद्दन्तधावनम् । दन्तानां काष्ठसंयोगो, हन्ति सप्तकुलानि वै ॥२॥” इति श्राद्धविधौ ॥ २१॥
तथाऽन्यतीर्थिका हि पञ्चामृतमध्ये मधु गणयन्ति, श्रावकैस्तु तत्स्थाने इक्षुरसो ज्ञेय इति लिख्यते-ततो घृते १क्षुरस २ दुग्ध ३ दधि Lal ४ सुगन्धिजलैः ५ पञ्चामृतस्नात्रम् । इति श्राद्धविधौ ॥ २ ॥
अथ भगवतोऽङ्गे तिलककरणानुक्रमो लिख्यते
ततः सुयलवालककुञ्चिका व्यापार्य प्रक्षाल्याङ्गरूक्षणद्वयेन निर्जलतामापाद्याज्रिजानुकरांसेषु मूर्ध्नि पूजा यथाक्रममित्युक्तेर्वक्ष्यमाणतया सृष्टया नवाड्रेषु श्रीचन्दनादिनाऽर्चयेत् । केऽप्याहुः-पूर्व भाले तिलकं कृत्वा नवाङ्गपूजा कार्या । जिनप्रभसूरिकृतपूजाविधौ तु-“ सरससुरहिचन्दणेण देवस्स दाहिणजाणु१ दाहिणखंधर निडाल३ वामस्वंध६ वामजाणू५ लक्खणेसु पंचसु हिअएण वा सह छस्सु वा अंगेसु पूर्य" । इति श्राद्धविधौ ॥ २३ ॥
तथा स्वगृहचैत्यढौकितचोक्षपूगीफलनैवेद्यादिविक्रयोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्यम्, नापि चैत्ये स्वयमारोप्यम्, किंतु सम्यक्स्वरूपमुक्त्वाऽर्चकादेः पार्थात् तद्योगाभावे सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमारोपयेत् अन्यथा मुधा जनप्रशंसादिदोषः । गृहचैत्यनैवेद्यादि
चारामिकस्य प्रागुक्तमासदेयस्थाने नार्ण्यम्, आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोषः, मुख्यवृत्त्या मासदेयं पृथगेव कार्यम्, O गृहचैत्यनैवेद्यचोक्षादि तु देवगृहे मोच्यम् । अन्यथा गृहचैत्यद्रव्यणैव गृहचैत्यं पूजितं स्यात् न तु स्वद्रव्येण, तथा चानादरावज्ञादिदोष: न
२५0॥