________________
विचार
स्यादेतत् प्रत्येकबुद्धानां शिष्यभावो विरुध्यते, तदेतदसमीचीनम् । यतः प्रव्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते, न तु रत्नाकरः। 88 तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिद्दोषः । तथा च तेषां ग्रन्थः इह तित्थे अपरिमाणा पन्नगा पइण्णगसामिअपरिमाणत्तणओ, किं तु इह सुत्ते पत्तेयबुद्धपणीयं पइण्णगं भाणियव्वं । कम्हा जम्हा पइण्णगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कीरइ इति, भणियं ' पत्तेयबुद्धावि तत्तिया चेव' त्ति । चोयग आह-नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए । आयरिओ आह-तित्थगरपणीयसासणपडिवन्नत्तणओ तस्स सीसा हवंति । अन्ये पुनरेवमाहुः- सामान्येन प्रकीर्णकैस्तुल्यत्वात्प्रत्येकबुद्धानामभिधानं, न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति । ' से तं' इत्यादि, तदेतत्कालिकम्, तदेतदावश्यकव्यतिरिक्तमिति ॥ १३५ ॥ इति श्रीगच्छाचारप्रकीर्णकावचूर्णौ । ३४ । पत्रे ॥ १४ ॥
॥२४८।।
ခင်ခင်နှင့်
उत्कृष्टा चैत्यवन्दना ऐर्यापथिकीप्रतिक्रमणपूर्विकैव भवति । जघन्यमध्यमे तु चैत्यवन्दने ऐर्यापथिकीप्रतिक्रमणमन्तरेणाऽपि भवतः । इति प्रवचनसारोद्धारे चैत्यवन्दनद्वारवृत्तौ ।। १५ ।।
अथ साधर्मिक वात्सल्यप्रभावनाऽक्षराणि लिख्यन्ते
निस्संकिय १, निक्कंखिय २, निव्वितिगिच्छा ३, अमूढदिट्ठी य ४ । उववूह ५ थिरीकरणे ६, वच्छल्ल ७, पभावणे ८, अट्ठ ।। ३२ ।। शङ्कितं - देशसर्वात्मकं तदभावो निःशङ्कितम् १, काङ्क्षितं - अन्यान्यदर्शनग्रहात्मकं तदभावो निष्काङ्क्षितम् २, विचिकित्साफलं प्रतिसन्देहस्तदभावो विदो विज्ञास्ते च तत्त्वतः साधव एव तज्जुगुप्सा वा तदभावो निर्विचिकित्सितं, निर्विजुगुप्सां वा ३, आर्षत्वात्सूत्र एवं पाठः, अमूढा - ऋद्धिमत्कुतीर्थिकदर्शनेऽप्यवगीतमस्मद्दर्शनमिति मोहरहिता चासौ दृष्टिश्च बुद्धिरूपा अमूढदृष्टिः ४, स च चतुर्विधोऽप्ययमान्तर आचारः । बाह्यं त्वाह-उपबृंहणा- गुणवतां स्तुति: ५, स्थिरीकरणं चाङ्गीकृतधर्मानुष्ठानं प्रति सीदतां स्थिरीकरणम् ६, वात्सल्यंसाधर्मिकजनस्य भक्तपानादिनोचितप्रतिपत्तिकरणम् ७, प्रभावना च स्वतीर्थोन्नतिहेतुचेष्टा सुप्रवर्त्तनात्मिका ८, वात्सल्यप्रभावने अष्टौ एते दर्शनाचाराः स्युरिति शेषः । इति श्रीअष्टाविंशोत्तराध्ययने एकत्रिंशत्तमगाथायाम् ।। १६ ।।
एतेन प्रतिमापूजनादिकं सजन्तुविराधनं कर्म भगवान्न समादिशतीति यत्केचन प्रलपन्ति तेऽपि परास्ता द्रष्टव्याः, सदारम्भस्य 88/
उत्तराध्ययनविचारा:
॥२४८।।