________________
विचार-
रत्नाकरःनि
||२४७
पइन्नगसहस्साई मज्झिमगाणं जिणवराणं चउद्दसपइण्णगसहस्साणि भगवओ वद्धमाणसामिस्स । अहवा जस्स जत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मियाए पारिणामियाए चउविहाए बुद्धीए उववेया तस्स तत्तियाइं पइण्णगसहस्साई पत्तेयबुद्धावि तत्तिया चेव से तं कालिअं आवस्सयवइरित्तं से तं अणंगपविलृ ॥ अस्य वृत्ति:-' एवमाइयाइं' इत्यादि, कियन्ति नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि ? तत एवमादीनि चतुरशीतिप्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रीऋषभस्वामिनस्तीर्थकृतः । तथा सङ्ख्येयानि प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकराणाम्, एतानि च यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि । तथा चतुर्दशप्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः । इयमत्र भावना-इह भगवत ऋषभस्वामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन्, ततः प्रकीर्णकरूपाणि
चाध्ययनानि कालिकोत्कालिकभेदभिन्नानि सर्वसङ्खच्या चतुरशीतिसहस्रसङ्ख्यान्यभवन् कथम् ? इति चेत्, उच्यते इह यद्भगवदर्हदुपदिष्टं ॐ श्रुतमनुत्यि भगवन्तः श्रमणा विरचयन्ति तत्सर्वं प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया
भाषन्ते तदपि सर्वं प्रकीर्णकम्, भगवतश्च ऋषभस्वामिन उत्कृष्ठा श्रमणसम्पदासीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ख्यानि, एवं मध्यमतीर्थकृतामपि सङ्ख्येयानि प्रकीर्णकसहस्राणि भावनीयानि । भगवतस्तु वर्द्धमानस्वामिनश्चतुर्दशश्रमणसहस्राणि तेन प्रकीर्णकान्यपि भगवतश्चतुर्दशसहस्राणि । अत्र द्वे मते-एके सूरय एवं प्रज्ञापयन्ति-इदं किल चतुरशीतिसहस्रादिकवृषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं, इतरथा पुनः सामान्यश्रमणा प्रभूततरा अपि तस्मिन् तस्मिन् ऋषभादिकाले आसीरन्, अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं प्रवाहतः पुनरेकैकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धास्तद्ग्रन्था अतीतकालिका अपि तीर्थे वर्तमानास्तेऽत्राधिकृता द्रष्टव्याः । एतदेव मतान्तरमुपदर्शयन्नाह-' अहवा' इत्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्या
औत्पत्तिक्या १ वैनयिक्या २ कर्मजया ३ पारिणामिक्या ४ चतुर्विधया बुद्ध्योपेता:-समन्विता आसीरन्, तस्य ऋषभादेस्तावन्ति प्रकीर्णकसहस्राणि, प्रत्येकबुद्धा अपि तावन्त एव । अत्रैके व्याचक्षतेइहैकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाण-प्रतिपादनात्,
॥२४७॥