________________
विचार- शक्नोति तर्हि एकदिनोनं षण्मासक्षपणं कृत्वा आचाम्लेन पारयतु, एवमकैकेन (कया) दिनहान्या तावदात्मानं तोलयेद्यावच्चतुर्थं कृत्वा रत्नाकर
o आचाम्लेन पारणं करोतु, एवमप्यसामर्थ्य दिवसे दिवसे गृहीत्वाचाम्लनिर्लेपम् । गुरुराह-करोत्वेवं तपः, यदि प्रत्युपेक्षणादिसंयमयोगधंशो
न भवति, केवलं सम्प्रति सेवार्त्तसंहनानां नास्ति तादृशी शक्तिरिति न तथोपदेशो विधीयते । पुनः परः प्राह-ननु महाराष्ट्रकोशलदेशोद्भवाः सदैव सौवीरकूरमात्रभोजिन: सैवार्त्तसंहननास्ततो यदि तेऽपीत्थं यापयन्ति यावज्जीवं तर्हि तथा सौवीरकूरमात्रभोजनेन किं न यतयो
मोक्षगमनैकबद्धकक्षा यापयन्ति ? तैः सुतरामेव यापनीयम्, प्रभूतगुणसम्भवात् । गुरुराह-तिअ सीअं समणाणं, तिअमुण्ह गिहीण ||२४१11 तेणणुन्नायं तक्काईणं गहणं, कट्ठरमाईसु भइयव्वं ॥ १॥ त्रिकं वस्तुत्रयं श्रमणानां शीतं भवति, तेन प्रतिदिवसमाचाम्लकरणे
तक्राद्यभावत आहारपाकासम्भवेनाजीर्णादयो दोषा- प्रादुष्यन्ति । तदेव त्रिकमुष्णं गृहिणाम्, तेन सौवीरकूरमात्रभोजनेऽपि तेषामाहारपाकभावतो
नाजीर्णादिदोषा जायन्ते, ततस्तेषां तथा यापयतामपि न कश्चिद्दोषः । साधूनां तूक्तनीत्या दोषस्तेन कारणेन तक्रादिग्रहणं साधूनामनुज्ञातम् । इह Soil प्रायो यतिना विकृतिपरिभोगपरित्यागेन सदैवात्मशरीरं यापनीयं कदाचिदेव च शरीरस्यापाटवे संयमयोगवृद्धिनिमित्तबलाधानाय विकृतिपरिभोगः । तथा
चोक्तं सूत्रे-'अभिक्खणं निविगइगया य' त्ति । निर्विकृतिपरिभोगे च तक्राद्येवोपयोगीति तक्रादिग्रहणम् । कट्ठरादिषु-घृतवटिकोन्मिश्रतीमनादिषु ग्रहणं भाज्य-विकल्पनीयं, ग्लानत्वादिप्रयोजनोत्पत्तौ कार्यं न शेषकालमिति भावः । तेषां च बहुलेपत्वात्, गृद्ध्यादिदोषजनकत्वाच्च । अथ किं तत्रिकम् ? उच्यते-आहारः, उपधिः, शय्या । एतानि त्रीण्यपि गृहिणां शीतकालेऽप्युष्णानि भवन्ति, तेन तेषां तक्रादिग्रहणमन्तरेणापि बाह्याभ्यन्तरोष्णतापेनाहारो जीर्यते, तत्राभ्यन्तरे भोजनवशात्, बाह्यः शय्योपधिवशात् । एतान्येवाहारोपधिश्यायरूपाणि त्रीणि वस्तूनि यतीनां ग्रीष्मकालेऽपि शीतानि भवन्ति । तत्राहारस्य शीतता भिक्षाचर्यायां प्रविष्टस्य बहुगृहेषु स्तोकस्तोकलाभेन वृहद्वेलालगनात् । उपधेरेकवारं वर्षाकालादर्वाग् प्रक्षालनेन मलिनत्वात् । शय्यायास्तु प्रत्यासन्नाग्निकरणाभावेन तेन कारणेन ग्रीष्मकालेऽप्याहारादीनां शीतत्वसम्भवरूपेणोपहन्यते जाठरोऽग्निः । तस्माच्चाग्न्युपघातादजीर्णबुभुक्षामान्द्यादयो दोषा जायन्ते, ततस्तक्रादिग्रहणं साधूनामनुज्ञातम् । तक्रादिनाऽपि हि जाठरोऽग्निरुद्दीप्यते, तेषामपि तथास्वाभाव्यात् । इति श्रीयतिजीते ६१ गाथावृत्तौ ४९ पत्रे ॥ ५ ॥
अथाजातश्मश्रुणः शिष्यादेराचारप्रकल्पाध्ययनं पाठयितुं न कल्पते, इत्यभिप्रायो लिख्यते
।२४१॥