________________
विचार
विचाराः
केचिच्चान्तकाले गृहस्थानां दीक्षाग्रहणं प्रति सन्दिह्यन्ते यद्दीक्षा ही विहारादिसामर्थ्ये सत्येव ग्राह्येति, परं तदसमीचीनम् शास्त्रे प्रकीर्णकरत्नाकरः तस्योक्तत्वात्, तथा हि-परगच्छआगयस्स उ, निरईयारस्स नेव उट्ठवणा । दिसिबंधो कायव्वो, तह पज्जंते वयारोवो ॥ १ ॥ पासथाई पुण, भणिओ उट्ठावणाविही सव्वो । दिसिबंधो तो नियमा, अह जइ सुस्सावगो कोई ॥ २ ॥ संथारगपव्वज्जं, पडिवज्जइ तस्स जिणगिहाईसु । पव्वज्जाविहि सव्वो, कायव्वो नेव उट्ठवणा ॥ ३ ॥ जड़ पुण भत्तपरिन्नं, पडिवज्जइ सावगो ससम्मत्तो | नवकारपुव्वयं परमाणुव्वयं समुच्चरइ ॥ ४ ॥ इति श्रीआराधनापताकायाम् ॥ ४ ॥
1128011
अथा भक्तपरिज्ञायामपि
जइ सोवि सव्वविरइं कयाणुराओ विसुद्धमणकाओ । छिन्नसयणाणुराओ, विसयकसाया विरत्तो य ।। १ ।। संथारगपव्वज्जं, ॐ पडिवञ्जइ सोवि नियमनिरवज्जं । सव्वविरइप्पहाणं, सामइयचरित्तमारुहइ ।। २ ।। गाथा ३२ । ३३ ॥
अथ साधुभि: प्रायो लेपकृद्वस्तु न ग्राह्यमित्यक्षराणि लिख्यन्ते
चउलहुयं लहइ मुणी, लित्ते दहिमाइलित्तकरमत्ते । छड्डियमिह पुढवाईसु, अणंतरपरंपरंति दुहा ॥ ६१ ॥ इह ॐ दधिक्षीरघृततैलतीमनादिद्रव्यस्य यस्य लेपः करभाजनादौ लगति तल्लेपकृत् लिप्तमुच्यते तच्च कारणं विना न ग्राह्यम् । यदाह- “ घित्त888 व्वमलेवकडं, लेवकडे मा हु पच्छकम्माइ । न य रसगेहिपसंगो, न य भुत्ते बंभपीडा य ॥ इह साधुना सदैवालेपकृद्वल्लचणककुल्माषशुष्कौदनादि गृहीतव्यम् । मा भूवन् लेपकृति ग्राह्यमाणे पश्चात्कर्मादयो दोषाः - दध्यादिलिप्तहस्तादिक्षालनादिरूपाः । न च सदैवालेपकृद्ग्रहणे रसगृद्धिप्रसङ्गो-रसाभ्यवहारलाम्पट्यवृद्धिप्रसक्तिः । न च तादृशे भुक्ते ब्रह्मपीडा- ब्रह्मव्रतस्य बाधा । तादृशस्य नीरसाहारस्य दर्पोत्पादकत्वाभावात् । अत्राह - नोदकः ननु यदि लेपकृद्ग्रहणे पश्चात्कर्मप्रभृतयो दोषा भवन्ति ततस्तन्न गृह्यते तर्हि मा कदाचनापि साधुर्भुक्ताम् । एवं सर्वेषां दोषाणां मूलत एवोत्थानं निषिद्धं भवति । गुरुराह सर्वकालं क्षपणमेव कुर्वतः साधोश्चिरकालभावितपोनियमसंयमानां हानिर्भवति, तस्माद्यावज्जीवक्षपणं न कार्यम्, पुनः प्राह-यदि सर्वकालं क्षपणं कर्तुमशक्तस्तर्हि षण्मासक्षपणं कृत्वा पारणकमलेपकृता विधत्ताम् । गुरुराह - यद्येवं तपः कुर्वन् संयमयोगान् कर्तुं शक्नोति तर्हि करोतु, न कोऽपि तस्य निषेधः । पुनरप्याह-यदि षण्मासक्षपणं कर्त्तुं न
88
॥२४०॥