________________
विचार- रत्नाकरः
प्रकीर्णकविचाराः .
||२४२
नो कप्पइ निग्गंधाण वा निगंथीण वा खुडुगस्स वा खुड्डियाए वा अवंजणजायस्स आयारपकप्पे नाम अज्झयणे उद्दिसित्तए । १। कप्पइ निग्गंथाण वा निग्गंथीण वा खुडुगस्स वा खुड्डियाए वा वंजणजायस्स आयारपकप्पे नाम अज्झयणे उद्दिसित्तए । २ । तिवासपरियागस्स समणस्स निग्गंथस्स कप्पति आयारपकप्पे नामं अज्झयणे उद्दिसित्तए ॥ इत्यादि, व्यवहारदशमोद्देशकोक्तेन विधिना सूत्रं पाठनीयम् । इति गच्छाचारप्रकीर्णके 'विहिणा जो उ चोएइ' इति गाथा २४ वृत्तौ ॥६॥
परिशटिवस्त्रे यावन्ति थिग्गलानि ग्रन्थयश्च कल्पन्ते तल्लिख्यते
जे भिक्खू वत्थस्स एगं पडियाणियं देइ देंतं वा सातिज्जति । यो वस्त्रस्यैकं थिग्गलं ददाति, ददतं वा स्वादयति-अनुमोदयति तस्य दोषाः । द्वौ कल्पौ सौत्रिकी एव और्णिको ग्राह्यः, वर्षाकालं विना और्णिक एकको न व्यापार्यो मध्यो सौत्रिको बहिरौर्णिक इति विधिपरिभोगः । औणिके शरीरे लग्ने षट्पदिकादिजन्तुसंसक्त्यादिदोषाः स्युः । जे भिक्खू वत्थस्स परं तिण्हं पडियाणियं देइ देंतं वा सातिज्जइ । ति यः कारणे त्रयाणां थिग्गलानां परतश्चतुर्थं थिग्गलं ददाति तस्य प्रायश्चित्तम् । जे भिक्खू अविहीए वत्थं सिव्वति, सिव्वंतं वा सातिज्जइ । त्ति अविधिसीवनं यथा गृहस्थानां पार्थद्वयमीलनेन सीवनं तथा न सीव्येत् । जे भिक्खू वत्थस्स एग फालियगंठियं करेइ, करेंतं वा सातिज्जति । ति पाटितवस्त्रस्योभयोरञ्चलयोर्मीलनेन ग्रन्थिं ददाति, अधिकं मा पाटयत्विति । जे भिक्खू वस्थस्स परं तिण्हं फालियगंठियाणं करेइ करेंतं वा सातिज्जति । त्ति वस्त्रे ग्रन्थिस्तावदुत्सर्गतो न कार्यः, यदि वस्त्रस्यालाभे ग्रन्थिं करोति तदा त्रयाणां ग्रन्थीनामधिकं ग्रन्थिं न कुर्यात् । इति श्रीगच्छाचारप्रकीर्णके 'देसं खित्तं तु जाणित्ता' इत्येतद्गाथा १४ वृत्तौ १२ पत्रे ॥ ७ ॥
जघन्यतोऽप्यधीताचारप्रकल्पस्यैव निश्रया विहर्त्तव्यमित्यभिप्रायो लिख्यते
आयारपकप्पधरा, चौद्दसपुव्वी य जे य तं मज्झा । तन्नीसाइ विहारो, सबालबुड्डस्स गच्छस्स ॥१॥ आचारप्रकल्पधरा:निशीथाध्ययनधारिणो जघन्या गीतार्थाः, चतुर्दशपूर्विणः पुनरुत्कृष्टाः, तन्मध्यवर्तिनः कल्पव्यवहारदशाश्रुतस्कन्धधरादयो मध्यमाः । तेषां जघन्यमध्यमोत्कृष्टानां गीतार्थनां निश्रया सबालवृद्धस्यापि गच्छस्य विहारो भवति, न पुनरगीतार्थस्य इति श्रीगच्छाचारप्रकीर्णके 'सीयावेइ विहारं' इत्येतद्गाथा २३ वृत्तौ २६ पत्रे ॥ ८ ॥
||२४||