________________
विचार-100 लोहसमानो लोहार्यः क्षीणांतरायस्य भगवतो वर्द्धमानस्वामिनः सदैवोच्छं-एषणीयभक्तादिकं गृह्णाति, तस्य भगवद्वैयावृत्त्यकरत्वात् ।
यत: “ धन्नो सो लोहज्जो, खंतिखमो पवरलोहसरिवन्नो । जस्स जिणो पत्तातो, इच्छइ पाणीहि भुत्तुं जे ॥" तथाऽपि गौतमस्वामी Tool स्वपारणके गुरोर्वर्द्धमानस्वामिनो योग्यं गृह्णाति । एवमन्येनाप्यवैयावृत्त्यकरभावेऽपि यथायोग्यं गुरोः कर्त्तव्यम् । इति व्यवहारभाष्यवृत्ती षष्ठोद्देशके ६५९ प्रतौ ४५७ पत्रे ॥ ८॥
अस्वाध्याये सर्वथा स्वाध्यायो न कर्त्तव्य इत्यभिप्रायो लिख्यते।।२३७ राया इव तित्थगरो, जाणवया साहुघोसणं सुत्तं । मेच्छा य असज्झातो, रयणधणाई व नाणादी ॥ १॥ अत्र राजा ईव तीर्थकरः
जानपदा इव साधवः, घोषणमिव सूत्रं, म्लेछा इवास्वाध्यायः, रत्नधनानीव ज्ञानादीनि । तत्र ये साधवो जानपदस्थानीया राजस्थानीयस्य तीर्थकरस्याज्ञां नानुपालयन्ति ते प्रान्तदेवतया छल्यन्ते, प्रायश्चित्तदण्डेन इव दण्ड्यन्ते । इति व्यवहारभाष्यसप्तमोद्देशके ६५९ प्रतौ ५०५ पत्रे ॥९॥ तथा सन्ध्यास्वपि स्वाध्यायो न कर्त्तव्य इत्यक्षराणि लिख्यन्ते
चउसंज्झासु न कीरइ, पाडिवएसुं तहेव चउसुंपि । जो जत्थ पूजती तू, सव्वेहिं सुगिम्हतो नियमा ॥ (१॥) चतस्रः fol सध्यास्तिस्रो रात्रौ । तद्यथा-प्रस्थिते सूर्ये, अर्द्धरात्रे, प्रभाते च, चतुर्थी दिवसस्य मध्यभागे, एतासु चतसृष्वपि दिनसध्यासु स्वाध्यायो न
क्रियते, शेषक्रियाणां तु प्रतिलेखनादीनां न प्रतिषेधः । स्वाध्यायकरणे चाज्ञाभङ्गादयो दोषास्तथा चतस्रः प्रतिपदः तद्यथा-आषाढपौर्णमासीप्रतिपत् १ इन्द्रमहप्रतिपत् २ कार्तिकपौर्णमासीप्रतिपत् ३, सुग्रीष्मप्रतिपत् ४ चैत्र पौर्णमासीप्रतिपदित्यर्थः, एतास्वपि चतसृष्वपि प्रतिपत्सु तथैव स्वाध्याय एव न क्रियते । न शेषक्रियाणां प्रतिषेधः । इह प्रतिपद्ग्रहणेन प्रतिपत्पर्यन्ताश्चत्वारो महाः सूचिताः । इत्येषां तु चतुर्णा महानां मध्ये यो महो यस्मिन् देशे यतो दिवसादारभ्य यावन्तं कालं पूर्यते तस्मिन् देशे ततो दिवसादारभ्य तावन्तं कालं स्वाध्यायं न कुर्वन्ति । प्रतिपत्पुनः सर्वेषां पर्यन्तः, 'सव्वेसि जाव पडिवंतो' इति वचनात् । सुग्रीष्मकश्चैत्रमासभावी पुनर्महामहः सर्वेषु देशेषु शुक्लपक्षप्रतिपद आरभ्य चैत्रपौर्णमासीप्रतिपत्पर्यन्तो नियमात्प्रसिद्धस्तो यद्यध्वानं प्रतिपन्नस्तथाऽपि चैत्रमासस्य शुक्लपक्षप्रतिपद आरभ्य सर्वं पक्षं पौर्णमा
॥२३७||