________________
व्यवहारविचाराः
POS
विचार-ॐ सोउं पडिच्छिऊणं, व गया अहवा पडिच्छिणे खिसा । हिंडंति होति दोसा, कारण पडिवत्तिकुसलेहिं ॥ (७॥) भिक्षार्थं गत इति श्रुत्वा
ते हीलयित्वा गते, अथवा क्षणमात्र प्रतीक्ष्य हीलयन्त्यौ गते, यदि वा यावदाचार्य आगच्छति तावत्प्रतीक्ष्यमाणे हीलयतः, अथवा प्रस्विन्नशरीर-परिगलास्वेदमागतं दृष्ट्वा खिसतः, यदि वा क्लमेन सुष्ठु कृतं वन्दनं न वा सोमं कथयतो वा परिश्रमेण न सुष्ठुवचनविनिर्गमस्तत उस्थिते हीलयतो यथा पिण्डोलक इवैष भिक्षामटति, किमाचार्यत्वमेतस्य एते भिक्षां हिण्डमाने दोषा:-यदि पुनः कारणे वक्ष्यमाणे भिक्षार्थं
गतो भवेत् राजादयश्च तत्रागताः, ते च पृच्छेयुः क्व गत आचार्यः तत्र ये प्रतिपत्तिकुशलास्तैर्नेदं वक्तव्यम्-भिक्षार्थं गत इति, चैत्यवन्दननिमित्तं ।।२३६ गत इति । ते यदि राजादय आचार्यमागच्छन्तं प्रतीक्षेरन् तदा येऽतीवदक्षा गीतार्थास्ते सुन्दरं पानकं प्रथमालिका सुन्दर कल्पं चोलपट्टे च
गृहीत्वाऽऽचार्यसमीपे गत्वाऽऽचार्यस्य कथयन्ति । तत आचार्यो मुखहस्तपादादि प्रक्षाल्य प्रथमालिका पानकं कृत्वा कल्पं प्रावृत्य पात्राण्यन्यस्य समर्प्य तादृशवेषो वसतावानीयते । यथाऽनाख्यातोऽपि राजादिभिर्जायते, एष आचार्य इति । ततो वसति प्राप्तस्य पादप्रोञ्छनं पादप्रमार्जनार्थमादाय साधव उपतिष्ठन्ति । पादप्रमार्जनानन्तरं वसतेरन्तः प्रविश्य पूर्वरचितायां निषद्यायामुपविशति । उपविष्टस्य चरणकल्पकरणाय कोऽपि साधुरुपढौकते । चरणप्रक्षालनानन्तरं च सर्वे साधवः पुरतः पार्श्वतः पृष्ठतो वा किङ्करभूतास्तिष्ठन्ति । यथा राजा चकितस्तिष्ठति । इति श्रीव्यवहारभाष्यवृत्तौ षष्ठोद्देशके ६५९ प्रतौ ४४९ पत्रे ॥ ७॥ .
न केवलं वैयावृत्त्यकरेणैवाहारादिना गुरोर्भक्तिः कार्या, किंत्वन्येन गीतार्थेनापि स्वयमाहृताहारादिना गुरोर्भक्तिः कर्त्तव्येत्यभिप्रायो लिख्यते
दव्वे भावे भत्ती, दव्वे गणिगाउ दूति जाराणं । भावंमि सीसवग्गो, करेइ भत्तिं सुअधरस्स ॥ (१॥) आचार्यस्य भक्तौ क्रियमाणायां तीर्थस्याव्यवच्छेदः, भक्तावक्रियमाणायां तु तीर्थव्यवच्छेदः । सा च भक्तिद्धिधा-द्रव्य भावे च, तत्र यन्नामगणिका भुजङ्गानां भक्ति कुर्वन्ति दूतयो वा जाराणां, सा द्रव्ये द्रव्यभक्तिः, भावे भावविषया भक्तिः पुनरियं यच्छिष्यवर्गः श्रुतधरस्य भक्ति करोति । यद्यपि चान्योऽपि गुरोर्भक्ति करोति तथाऽपि ममापि निर्जरा स्यादित्यात्मानुग्रहबुद्ध्याऽन्येनापि भक्तिः कर्त्तव्येति । लौहार्यगौतमदृष्टान्तेन भावयति-जइवि य लोहसनामो, गिण्हइ खीणंतराइणो उंछं । तहवि य गोअमसामी, पारणए गेहए गुरुणो ॥ (२॥) यद्यपि च ।
|२३६॥