________________
विचाररत्नाकरः
॥२३५।।
तत्र प्रथमं तीर्थङ्करकल्पद्वारं व्याख्यानयति-देविंदचक्कवट्टी, मंडलिया ईसरा तलवरा य । अभिगच्छन्ति जिणंदे, तो गोअरिअंन हिंडंति ॥ १॥ जिनेन्द्रान् भगवत उत्पन्ने ज्ञाने देवेन्द्राः-शक्रप्रभृतयश्चक्रवर्तिनः उपलक्षणमेतत् यथायोगं वासुदेवा बलदेवाश्च तथा माण्डलिका:-कतिपयमण्डलप्रभव ईश्वरास्तलवरश्चाभिगच्छन्ति, ततस्ते गोचरचर्यां न हिण्डन्ति ॥ संखादीया कोडी, सुराण निच्चं जिणे उवासंति । संसयवागरणाणि य, मणसा वचसा च पुच्छंति ॥ २ ॥ सङ्ख्यातीताः सुराणां कोटयो नित्यं-सर्वकालं जिनान्-तीर्थकृत उपासते, तथा सततं मनसा वचसा च पृच्छन्ति, सुरादिके मनसा वचसा च संशयं व्याकरणानि करोति, ततो भिक्षां न हिण्डते ॥ उप्पन्ननाणा जह नो अडंति, चोत्तीसबुद्धातिसया जिणंदा । एवं गणी अट्ठगुणोववेओ, सत्था व नो हिंडइ इडिमं तु ॥ ३ ॥ यथा उत्पन्ने ज्ञाने जिनेन्द्राश्चस्त्रिंशदुद्धातिशयाः सर्वज्ञातिशया देहसौगन्ध्यादयो येषां ते तथा भिक्षां न हिण्डन्ते । एवं तीर्थकरदृष्टान्तेन गणी आचार्योऽष्टगुणोपेतोऽष्टविधगणिसम्पदुपेतः शास्ता इव तीर्थकर इव ऋद्धिमान्न हिण्डते ॥ गुरुहिडणंमि गुरुगा, वसभे लहुआनिवारयंतस्स । गीतागीते गुरुलहु, आणादीया बहू दोसा ॥ ४ ॥ आचार्य भिक्षामटामीति व्यवसितं यदि वृषभो न निवारयति तदा तस्यानिवारयतः प्रायश्चित्तं चत्वारो लघुकाः, अथ वृषभेण निवारितोऽपि न तिष्ठति तर्हि वृषभः शुद्ध आचार्यस्य प्रायश्चित्तं चत्वारो गुरुकाः, तथा गीतार्थो भिक्षुश्चेन्न निवारयति तदा तस्य मासगुरुः, अगीतार्थस्य भिक्षीरनिवारयतो मासलघुः । आचार्यस्य गीतार्थागीताभ्यां वारितस्यापि गमने प्रत्येकं चतुर्गुरुः । आज्ञादयश्चेमे वक्ष्यमाणा बहवो दोषाः, तानेवाह + + + + + + + + रायामच्चपुरोहिय, सेट्ठी सेणावई तलवरा य । अभिगच्छंतायरिए, तहियं च इमे उदाहरणं ॥ (५ ॥) यथा तीर्थकरश्छद्यस्थकाले हिण्डमानोऽप्युत्पन्ने ज्ञाने देवेन्द्राद्यभिगमान्न हिण्डते । एवमाचार्यानपि-आचार्यपदस्थानपि राजा अमात्यः पुरोहितः श्रेष्ठी सेनापतितलवराश्चाभिगच्छन्ति, ततस्ते भिक्षां न हिण्डन्ते अन्यथा दोषः, तत्र चेदमुदाहरणम्, तदेवाह-सोऊण य उवसंतो, अमच्चो रण्णो तगं निवेदेइ । रायावि बितियदिवसे,
तइए अमच्ची य देवी य ॥ (६॥) राज्ञोऽमात्य आचार्यसमीपे धर्मं श्रुत्वा उपशान्तः, स च राज्ञस्तकमाचार्यं निवेदयति यथा8 गुणवानतीवाचार्योऽमुकप्रदेशे तिष्ठति, ततो द्वितीयदिवसे राजा अमात्येन सह गतः, स धर्मं श्रुत्वा परितुष्ट आगतो निजाग्रमहिष्याः
परिकथयति अमात्येनाप्यात्मीयभार्यायाः कथितम्, ततोऽमात्यी देवी च तृतीयदिवसे धर्मश्रवणाय समागते आचार्यो भिक्षार्थं गतः । ततः
॥२३५||