________________
विचार-यथा वयमप्येवं कुर्मो येन महती शासनस्य प्रभावना भवति, तथा श्रावकश्राविकाणामन्येषां च बहुमानमुपजायते शासनस्योपरि यथा अहो व्यवहाररत्नाकरः। ॐ महाप्रतापिपारमेश्वरं शासनं, यत्रेदृशा महातपस्विन इति, तथा कुतीर्थे जातावेकवचनं, कुतीर्थानामपभ्राजना- हीलना, तत्रेदृशां महासत्वानां
विचाराः
ॐ तपस्विनामभावात्, तथा जीतमेतत्-कल्प एष यथा समाप्तप्रतिमानुष्ठानानां सत्करणीय इति, तथा तीर्थवृद्धिश्च । एवं प्रवचनस्यातिशयमुदीक्ष्यमाणा बहवः संसाराद्विरज्यन्ते, विरक्ताश्च परित्यक्तसङ्गाः प्रव्रज्यां प्रतिपद्यन्ते, ततो भवति तीर्थप्रवृद्धिरिति । इति श्रीव्यवहारभाष्यवृत्तौ प्रथमोद्देशके ६५९ प्रतौ १९५ पत्रे ॥ ५ ॥
अथाचार्यै: शरीरचिन्तार्थं बहिर्न गन्तव्यम्, इत्यक्षराणि लिख्यन्ते
1123811
बहिगमणे चउगुरुगा, आणादी वाणिए य मिच्छत्तं । पडियरणमणाभोगे, खरमुहि मरुए तिरिक्खादी ॥ (१) ॥ आचार्यो यदि विचारभूमिं बहिर्गच्छति ततः प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः । तथा ' वाणिए य मिच्छत्तं ' ति वणिजि पूर्वमभ्युत्थानं कृतवति, पश्चादकुर्वति केषाञ्चिन्मिथ्यात्वमुपजायते, इयमत्र भावना - आचार्यं संज्ञाभूमिं व्रजन्तं ततः प्रत्यागच्छन्तं च दृष्ट्वा वणिजो निजनिजापणस्था अभ्युत्थानं कृतवन्तः तं च तथा वणिजां बहुमानेनाभ्युत्थानं दृष्ट्वा केचिदन्ये मन्यन्ते गुणवानेष आचार्यो येन वणिज एवमेनमभ्युत्तिष्ठन्ति तस्मादस्माकमपि पूज्य इति तेऽपि पूजयन्ति । यदा त्वाचार्यः कदाचिद्द्वौ वारौ संज्ञाभूमिं व्रजति तदा चतुरो वारान् गमने प्रत्यागमने चोत्थातव्यं ते चालस्यं मन्यमाना अभ्युत्थानं भविष्यतीति कृत्वा आचार्यं दृष्ट्वाऽन्यतो मुखं कुर्वन्ति च तथा दृष्ट्वाऽन्ये चिन्तयन्ति नूनमेष प्रमादी जातो, ज्ञातोपि गुणवानपि यदीदृशः पतति तर्हि न किञ्चिदिति ते मिथ्यात्वं गच्छन्ति । तथा च लोकेन पूज्यमानं दृष्ट्वा मरुके ब्राह्मणस्य मारणबुद्ध्या प्रतिचरणं भवति, ततः संज्ञाभूमिं गतं विजने प्रदेशे मारयेत् । तथा खरमुखींनपुंसकीं दासीं वा प्रापयित्वा उड्डाहं कुर्यात् । अनाभोगेन वा वनगहने प्रविष्टे तिर्यगादौ कुलटादौ च प्रविष्टायामात्मपरोभयसमुत्था दोषा एष गाथासङ्क्षेपार्थः । इति श्रीव्यवहारभाष्यवृत्तौ षष्ठोद्देशके ६५९ प्रतौ ४४१ पत्रे ॥ ६ ॥
အာသာ သာသာ
आचार्यो हि भगवांस्तीर्थङ्करकल्प:, ततस्तेन गोचरचर्यायां न गन्तव्यम्, यदि याति तर्हि प्रायश्चित्तम्, तं गच्छन्तं वा यदि गीतार्थो भिक्षुर्वा न निषेधयति तर्हि तयोरपि प्रायश्चित्तमित्यभिप्रायो लिख्यते
1123811