________________
रत्नाकरः 188
विचार- ७, तथा ' बहुजण ' त्ति बहुजनमध्ये यदालोचनं तद्बहुजनम्, अथवा बहवो जना आलोचनागुरवो यत्र तद्बहुजनमालोचनम्, किमुक्तं भवति ? एकस्य पुरत आलोच्य तदेवापराधजातमन्यस्यापि पुरत आलोचयति एषोऽष्टम आलोचनादोष: ८, ' अवत्त ' त्ति अव्यक्तोऽगीतार्थः, 9 तस्याव्यक्तस्य गुरोः पुरतो यदपराधालोचनं तदव्यक्तम्, एष नवम आलोचनादोष: ९, ' तस्सेवि 'त्ति शिष्यो यमपराधमालोचयिष्यति तमेव सेवते यो गुरुरसौ तत्सेवी तस्य समीपे यदपराधालोचनं एष ममातिचारेण तुल्यस्ततो न किमपि मे प्रायश्चित्तं दास्यत्यल्पं वा दास्यति नं च मां खरंटयिष्यते यथा विरूपं कृतं त्वयेति बुद्ध्या तदालोचनं तत्सेवि, एष दशम आलोचनादोष: १० । इति श्रीव्यवहारभाष्यवृत्ती प्रथमोद्देशके ९५९ प्रतौ १४१ पत्रे ॥ ४ ॥
अथ साधूनामपि योगादितपोऽनुष्ठानपरिसमाप्ताववश्यं नन्द्यादिर्महोत्सवः कर्त्तव्य एव, न च किमिदं निर्ग्रन्थानामुत्सवकरणमित्यादिशङ्का कार्या, जिनशासनोन्नतिकरत्वाच्छास्त्रोक्तत्वाच्च । तथा हि- इत्युक्तः प्रतिमाप्रतिपत्तिविधिः, इदानीं समाप्तिविधिमाह - तीरियउब्मामणतो य, दरिसणं साहुसन्निमप्पाहे । दंडियभोइयअसती, सावगसंघो व सक्कारं ॥ (१) ॥ तीरितायां समाप्तायां प्रतिमायामुत्प्राबल्येन भ्रमन्त्युद्भ्रमा:भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उद्भ्रमैकनियोगो ग्रामस्तत्र दर्शनमात्मनः प्रकटनं करोति, ततः साधुं संयतं संज्ञिनं सम्यग्दृष्टि श्रावकं वा ' अप्पाहे ' त्ति संदेशयति, ततो दंडिनो राज्ञो निवेदनं स सत्कारं करोति, तदभावे भोजिक:, तस्याप्यभावे श्रावकवर्ग:, तस्याप्यभावे सङ्घः साधुसाध्वीवर्गः । इयमत्र भावनाप्रतिमायां समाप्तायां यस्मिन् ग्रामे प्रत्यासन्ने बहवो भिक्षाचराः साधवश्च समागच्छन्ति, तत्रागत्यात्मानं दर्शयति दर्शयंश्च यं साधुं श्रावकं वा पश्यति तस्य सन्देशं कथयति यथा- समापिता मया प्रतिमा ततोऽहमागत इति । तत्राचार्या राज्ञो निवेदयन्ति यथा - अमुको महातपस्वी समाप्ततपः कर्माभूदिति स महता सत्कारेण गच्छे प्रवेशनीय इति । ततः स राजा तस्य सत्कारं कारयितव्यः, तदभावेऽधिकृतस्य ग्रामस्य नगरस्य वा नायकः, तदभावे समृद्धः श्रावकवर्गः, तदभावे साधुसाध्वीवर्गप्रभृतिकः सङ्घो यथाशक्ति सत्कारं करोति । सत्कारो नाम तस्योपरि चन्द्रोदयधारणं, नान्दीतूर्यास्फालनं, सुगन्धवासक्षेपणमित्यादि, एवंरूपेण सत्कारेण गच्छं प्रवेशयेत् । सत्कारेण प्रवेशनायामिमे गुणाः- उब्भावणा पवयणे, सद्भाजणणं तहेव बहुमाणो । ओहावणा कुतित्थे, जीअं तह तित्थवुड्डी य ।। ( २ ) ॥ प्रवेशसत्कारेण प्रवचने-प्रवचनस्योद्भाजनाप्राबल्येन प्रकाशनं भवति, तथाऽन्येषां बहूनां साधूनां श्रद्धाजननं
1123311
1123311