________________
विचाररत्नाकरः। 88
दशभिर्गुणैरुपपेत एव-युक्त एव भवति, तुरेवकारार्थो भिन्नक्रमत्वादत्र सम्बध्यते । तानेव गुणानुपदर्शयति ' जाइ' इत्यादि, जातिसम्पन्नः 1088 कुलसम्यन्नः, मातृपक्षो जाति, पितृपक्ष: कुलम्, विनयसम्पन्नः, ज्ञानसम्पन्नः, दर्शनसम्पन्नः, चरणसम्पन्नः, क्षान्तः, दान्तः, अमायी, अपश्चात्तापी च बोद्धव्यः । अथ कस्मादालोचकस्यैतावान् गुणसमूहोऽन्विष्यते ? उच्यते-जातिसम्पन्नः प्रायो ऽकृत्यं न करोति अथ कथमपि कृतं तर्हि सम्यगालोचयति, कुलसम्पन्न: प्रतिपन्नप्रायश्चित्तनिर्वाहक उपजायते, विनयसम्पन्नो निषद्यादानादिकं विनयं सर्वं करोति सम्यगालोचयति, ज्ञानसम्पन्नः श्रुतानुसारेण सम्यगालोचयति, अमुकश्रुतेन मे दत्तं प्रायश्चित्तमतः शुद्धोऽहमिति च जानीते, दर्शनसम्पन्नः, प्रायश्चित्ताच्छुद्धि श्रद्धत्ते, चरणसम्पन्नः प्रायोऽतिचारं पुनर्न करोति अनालोचितं वा चारित्रं न शुध्यतीति सम्यगालोचयति, क्षान्तो नामं क्षमायुक्तः स कस्मिंश्चित्प्रयोजने गुर्वादिभिः खरपरुषमपि भणितः सम्यक् प्रतिपद्यते यदपि च प्रायश्चित्तमारोपितं तदपि सम्यग् वहति, दान्तो नाम इन्द्रियनोइन्द्रियजयसम्पन्नः स प्रायश्चित्ततपः सम्यक्करोति, मायाऽस्यास्तीति मायी न मायी अमायी सोऽप्रतिकुञ्चितमालोचयति, अपश्चात्तापी नाम यः पश्चात् परितापं न करोति हा दुष्टु कृतं मया यदालोचितमिदानीं प्रायश्चित्ततपः कथं करिष्यामीति किं त्वेवं मन्यते कृतपुण्योऽहं यत्प्रायश्चित्तं प्रतिपन्नवानिति । अत ऊद्धर्वमालोचनाया दोषान् समासेन सङ्क्षेपेण वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति आकंपित्ताऽणुमाणित्ता, (आकंपिअ अणुमणिअ) जं दिट्ठे बायरं च सुहुमं वा । छण्णं सद्दाउलगं, बहुजणमव्वत्ततस्सेवी ( ||२||) आवर्जित सन्नाचार्यः स्तोकमेवं प्रायश्चित्तं दास्यतीति बुद्ध्या वैयावृत्त्यकरणादिभिरालोचनाचार्यमाकम्प्य-आराध्य यत् आलोचयति, एष आलोचनादोष: १, तथा अनुमान्यानुमानं कृत्वा लघुतरापराधनिवेदनतो मृदुदण्डप्रदायकत्वादिस्वरूपमाचार्यस्याकलय्य यदालोचयत्येषोऽप्यालोचनादोष: २, तथा यद्दृष्टमपराधजातं क्रियमाणमाचार्यदिना तदेवालोचयति नापरमिति तृतीय आलोचनादोष ३, 'बायरं च ' त्ति बादरं दोषजातमालोचयति न सूक्ष्मं, तत्रावज्ञापरत्वात् एष चतुर्थ: ४, ' सुहुमं व' त्ति सूक्ष्मं वा दोषजातमालोचयति न बादरम् यः सूक्ष्ममालोचयति स कथं बादरं नालोचयतीत्येवंरूपभावसम्पादनार्थमाचार्यस्यैष पञ्चम आलोचनादोष: ५, तथा ' छण्णं' ति प्रच्छन्नमालोचयति किमुक्तं भवति ? लज्जालुतामुपदर्थ्यापराधानल्पशब्देन तथाऽऽलोचयति यथा केवलमात्मैव शृणोति, न गुरुरित्येष षष्ठ आलोचनादोष:, 'सद्दाउलं ' त्ति शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोचयति इदमुक्तं भवति-महता शब्देन तथाऽऽलोचयति यथाऽन्येऽप्यगीतार्थादयः शृण्वन्तीत्येष सप्तम आलोचनादोषः
1123211
88888888888888888
व्यवहार
विचारा:
1123211