________________
विचार
प्रसह्य प्रकटमेव वाचं ब्रुवतः सतोऽर्थो मोक्षस्तत्कारणभूतो वा संयमः स बहुः परिहीयते ध्वंसमुपयाति इदमुक्तं भवति, बहुना कालेन रत्नाकरः। यदर्जितं विकृष्टेन तपसा महत्पुण्यं तत्कलहं कुर्वतः परोपघातिनीं वाचं ब्रुवतस्तत्क्षणमेव ध्वंसमुपयाति । तथा हि- " जं अज्जियं समीखल्लएहिं तवनियमवंभमईएहिं । मा हु तयं छड्डेहह, कलहंता सागपत्तेहिं ॥ १ ॥ " इत्येवं मत्वा मनागप्यधिकरणं न कुर्यात्पण्डितः सदसद्विवेकी । इति सूत्रकृताङ्गाद्यश्रुतस्कन्धद्वितीयवैतालीयाध्ययने द्वितीयोद्देशकवृत्तौ २७१ प्रतौ ४२ पत्रे ।। २ ।।
119211
•8%%%%%%%%%%
दुः कर्मवशतो नारका अशुच्यादिविरूपमाहारमाहारयन्तीति जिज्ञासया लिख्यते
33
" ते हम्ममाणा णरगे पडंति, पुन्ने दुरूवस्स महाभितावे । ते तत्थ चिठ्ठति दुरूवभक्खी, तुट्टंति कम्मोवगया किमीहिं ॥ २० ॥ ते वराका नारका हन्यमानास्ताड्यमाना नरकपालेभ्यो नष्टा अन्यस्मिन् घोरतरे नरकैकदेशे पतन्ति गच्छन्ति । किंभूते नरके ? पूर्णे भृते, दुष्टं रूपं यस्य तद्दुरूपम् विष्टाऽसृग्मांसादिकमलं तस्य भृते । तथा महाभितापेऽतिसन्तापोपेते ते नारकाः स्वकर्मावबद्धास्तत्रैवंभूते नरके दुरूपभक्षिणोऽशुच्यादिभक्षकाः प्रभूतं कालं यावत्तिष्ठन्ति । तथा कृमिभिर्नरकपालापादितैः परस्परकृतैश्च स्वकर्मोपगताः स्वकर्मढौकितास्तुद्य व्यव्यन्त इति । तथा चागमः-“ छठ्ठीसत्तमीसु णं पुढवीसु नेरइया पहू महंताई लोहियकुंथुरूवाइं विउव्वित्ता अन्नमन्नस्स कायं समतुरंगेमाणा समतुरंगेमाणा अणुघायमाणा अणुघायमाणा चिठ्ठति ” । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धे निरयविभत्तिनामपञ्चमाध्ययनप्रथमोद्देशे २७१ प्रतौ ७७ पत्रे ॥ ३ ॥
न च परभवकृतमेव कर्मात्र भुज्यते, अत्र कृतं परत्रैव भोक्तव्यमिति निर्भीकता । नापि च- ' अत्युग्रपापपुण्यानामिहैव फलमाप्यते ' इदं लौकिकमेव, आगमेऽप्यस्य श्रूयमाणत्वात् । स चायम्
" अस्सि च लोए अदुवा परत्था, सयग्गसो वा तह अन्नहा वा । संसारमावन्न परं परं ते, बंधंति वेयंति य दुन्नियाई ॥ ४ ॥” “ अस्सि च' इत्यादि, यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव जन्मनि विपाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ तस्य कर्मविपाकं ददति । एकस्मिन्नेव जन्मनि विपाकं तीव्रं ददति, शताग्रशो वेति बहुषु जन्मसु । येनैव प्रकारेण तदशुभमाचरन्ति तथैवोदीर्यते तथाऽन्यथा वेति, इदमुक्तं भवति, किञ्चित्कर्म तद्भव एव विपाकं ददाति किञ्चिज्जन्मान्तरे, यथा मृगापुत्रस्य दुःखविपाकाख्ये विपाकश्रुताङ्गश्रुतस्कन्थे
ာာာ
सूत्रकृताङ्ग विचाराः
119211