________________
विचार-Hel
॥ अथ द्वितीयस्तरङ्गः ॥ रत्नाकरः
अनन्तचैतन्यविकासनाय, सर्वज्ञलक्ष्मीकनकासनाय ।
कृतान्यतीर्थोन्नतिनाशनाय, नमो नमः श्रीजिनशासनाय ॥ १॥ अथ क्रमायाताः श्रीसूत्रकृताङ्गविचारा लिख्यन्ते
इह हि केचिदसद्ग्रहग्रस्तहृदयाः प्रतिपदमालोक्यमानश्रीजिनप्रतिमाक्षरभीरवः सूत्रसूचितार्थसार्थसमर्थितान्यपि प्रकरणसिद्धान्तविवरणानि 119911
न स्वीकुर्वते, न च ते विदन्ति सिद्धान्तार्था एवैते । तत्र चागमो लिख्यते
“सुत्तेण सूचियं चिय, अत्था तह सूचिया य जुत्ता य । तो बहुविहप्पउत्ता, एया पसिद्धा अणादीया ॥२॥" नियुक्तिगाथा । वृत्तिर्यथा-अर्थस्य सूचनात्सूत्रम् तेन सूत्रेण केचिदर्थाः साक्षात्सूचिताः मुख्यतयोपात्तास्तथाऽपरे सूचिता अर्थापत्त्याक्षिप्ताः । साक्षादनुपादानेऽपि दध्यानयनचोदनया तदाधारानयनचोदनावदिति । एवं च कृत्वा चतुर्दशपूर्वविदः परस्परं षट्स्थानपतिता भवन्ति । तथा चोक्तम्- " अक्खरलंभेण समा, ऊणहिया होंति मतिविसेसेहिं । ते वि य मईविसेसा, सुयनाणम्भितरे जाण ॥१॥" तत्र ये साक्षादुपात्तास्तान् प्रति
सर्वेऽपि तुल्याः, ये पुनः सूचितास्तदपेक्षया कश्चिदनन्तभागाधिकमर्थं वेत्त्यपरोऽसंख्येयभागाधिकमन्यः संख्येयभागाधिकं तथाऽन्यः Hel संख्येयासंख्येयानन्तगुणमिति । ते च सर्वेऽपि युक्ता युक्त्युपपन्नाः सूत्रोपात्ता एव वेदितव्याः । तथा चोक्तम्-' ते वि य मईविसेसा'
इत्यादि, ननु किं सूत्रोपात्तेभ्योऽन्येऽपि केचनार्थाः सन्ति येन तदपेक्षया चतुर्दशपूर्वविदां षट्स्थानपतित्वमु ष्यते, बाढं विद्यन्ते, यतोऽभिहितम् " पण्णवणिज्जा भावा, अणंतभागो उ अणभिलप्पाणं । पण्णवणिज्जाणं पुण, अणंतभागो सुयनिबद्धो ॥१॥” इति श्रीसूत्रकृताङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययने २७१ प्रतौ ५ पत्रे ॥२॥
अधिकरणकारि वचनं वदतः साधोभूयसी हानिर्भवतीति यतिजनजिज्ञापयिषया लिख्यते___“ अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्ज दारुणं । अठे परिहायइ बहु, अहिगरणं न करेज्ज पंडिए ॥१९॥" अहिगरण' इत्यादि, अधिकरणं कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरस्तस्यैवंभूतस्य भिक्षोस्तथाऽधिकरणकरी दारुणां वा भयानका
1199||