________________
बृहत्कल्पविचाराः
:
विचार- निरतिशयाः प्राप्तमेव तत्कार्यं जानन्ते, ज्ञात्वा च यतनया तत्परिहरन्ति । अहवा जिणप्पमाणा कारणसेवी अदोसवं होइ । थेरावि जाणग रत्नाकरः
च्चिय, कारणजयणाइ सेवंता ॥५॥अथवा 'जिणजाणग' ति पदमन्यथा व्याख्यानयति-जिन:-तीर्थङ्करस्तस्य प्रामाण्यात्कारणाद्वारपिधानसेवी अदोषवान् भवति, कुत इत्याह-'थेरावि' इत्यादि, जिनानां हि भगवतामियमाज्ञा कारणे यतनया द्वारपिधानं सेवमानाः स्थविरकल्पिका अपि ज्ञायका एव सम्यग्विधिज्ञा एव । आह-किं तत्कारणं ? येन द्वारं पिधीयते उच्यते-पडिणीयतेणसावयउभामगगोणसाणएऽणप्पज्झे । सीयं
च दुरधियासं, दीहा पक्खी व सागरिए ।। (६॥) उद्घाटिते द्वारे प्रत्यनीकः प्रविश्य हननं-अपद्रावणं वा कुर्यात् । स्तेना उपधिस्तेनाः 112201
शरीरस्तेना वा प्रविशेयुः एवं श्वापदाः-सिंहव्याघ्रादयः उद्धामका:-पारदारिकाः गौः-बलीवर्दः श्वानः प्रतीतः एते वा द्वारमुद्धाटं दृष्ट्वा प्रविशेषुः तथा' अणप्पज्झे' ति अनात्मवशः-क्षिप्तचित्तादि द्वारेऽपिहिते निर्गच्छेत् शीतं वा दुरधिसहं हिमकणानुषक्तं निपतेत् दीर्घा वाॐ सर्पाः पक्षिणो वा काककपोतप्रभृतयः प्रविशेयुः सागारिको वा कश्चित् प्रतिश्रयमुद्धाटद्वारं दृष्ट्वा तत्र प्रविश्य शयीत विश्रामं वा गृह्णीयाच्यन्ते
एक्केक्कंमि उ ठाणे, चउरो मासा हवंति उग्धाया ॥ आणाइणो य दोसा, विराहणा संजमायाए ॥ (७॥) द्वारमस्थगयतामनन्तथणाए a एकैकस्मिन् प्रत्यनीकप्रवेशादौ स्थाने यदि द्वारं न स्थगयंति तदा चत्वारो मासा उद्धाता:-लघवः प्रायश्चित्तं भवन्ति, आज्ञादयश्चात्र देगी वा
विराधना च संयमात्मविषया भावनीया । यदुक्तं चत्वारो मासा उद्धाता इति तदेतद्बाहुल्यमङ्गीकृत्य द्रष्टव्यम् । अतोऽपवादयन्नाम्य अहिसावयपच्चस्थिसु, गुरुगा सेसेसु हुँति चउलहुगा । तेणे गुरुगा लहुगा, आणाइविराहणा दुविहा ।। (८1) अहिषु श्वापदेषु च प्रत्यर्थिषु' च प्रत्यनीकेषु द्वारमस्थगयतां प्रत्येकं चत्वारो गुरुकाः । शेषेषूद्धामकादिषु सागारिकान्तेषु चतुर्लघुकाः । स्तेनेषु गुरुका लघुकश्च भवन्ति, तत्र शरीरस्तेनेषु चतुर्गुरुकाः, उपधिस्तेनेषु चतुर्लघुकाः आज्ञादयश्च दोषाः विराधना द्विविधा-संयमविराधना, आत्मविराधना च, तत्र संयमविराधना स्तेनैरुपधावपहृते तृणग्रहणमग्निसेवां वा कुर्वन्ति । सागारिकादयो वा तप्तायोगोलकल्पाः प्रविष्टाः सन्तो निषदनशयनादि कुर्वाणा बहूनां प्राणिजातीयानामुपमर्दनं कुर्युः । आत्मविराधना तु प्रत्यनीकादिषु स्फुटैवेति ॥ आह-ज्ञातमस्माभिरपिधानकारणं, परं काऽत्र यतना ? इति नाद्याऽपि वयं जानीमः, उच्यते-उवओगं हिठुवरिं, काऊण ठविंतवंगुरते य । पेहा जत्थ न सुज्झइ, पमज्जिउं तत्थ सारिति ॥ (९॥) श्रोत्रादिभिरिन्द्रियैरधस्तादुपरि चोपयोगं कृत्वा द्वारं स्थगयन्ति वाऽपावृण्वन्ति वा । यत्र चान्थकारे प्रेक्षा-चक्षुषा निरीक्षणं
l
1122011