________________
विचार- रत्नाकर
ले.
||२१९
न भवन्तीत्यादि ब्रुवाणा आचार्योपाध्यायादिमहापुरुषाशातनया संसारं पल्लवयंति, कपाटनिषेधश्च जिनकल्पिकाश्रितः स्थविरकल्पिके योजयन्तीति नयनौषधं श्रवणयोः क्षिपन्तीति । स्थविरकल्पिकानां प्रत्युताकपाटोपाश्रयावस्थाने दोषा इत्यक्षराणि लिख्यन्ते
कप्पइ निग्गंथाणं अवंगुयदुवारिए उवस्सए वस्थए । कल्पते निर्ग्रन्थानामपावृत्तद्वारे-उद्घाटद्वारे उपाश्रये वस्तुमिति सूत्रार्थः । अथ भाष्यविस्तर:-निग्गंथदारपिहणे, लहुओ मासो उ दोसु आणाई । अइगमणे निग्गमणे, संघट्टणमाइ पलिमंथो ॥ १॥ निर्ग्रन्था यदि द्वारपिधानं कुर्वन्ति तदा लघुको मासः प्रायश्चित्तम्, आज्ञादयश्च दोषाः, विराधना त्वियम्-कोऽपि साधुरतिगमनं-प्रवेशं करोति, अन्येन च साधुना द्वारपिधानाय कपाट प्रेरितं तेन च तस्य शिरस्यभिघाते परितापादिका ग्लानारोपणा, एवं निर्गमनं कुर्वतोऽपि केनचिबहिःस्थितेन पश्चान्मुखं कपाटे प्रेरिते शीर्ष भिद्यते तथा त्रसजन्तूनां सट्टनमादिशब्दात्परितापनमपद्रावणं वा द्वारे पिधीयमाने अपाव्रियमाणे वा भवेत्, परिमन्थश्च-सूत्रार्थव्याघातो भूयो भूयः पिदधतामपावृण्वतां च भवति । एतामेव नियुक्तिगाथा व्याख्यानयति-घरकोइलिया सप्पे, संगम य हुंति हेळुवरि । ढक्कितवंगुरिते, अभिघातो नितइंताणं ॥ २ ॥ द्वारस्याधस्तादुपरि च गृहकोकिला वा सो वा सञ्चारिम कीटिकाकुन्थुकंसारिकादयो जीवा भवेयुः, आदिशब्दात्कोलिकादयो वा संपातिमसत्वाः, ततो द्वार ढंक्कयतामपावृएवतां च-उद्ध 'नितइताणं' ति निर्गच्छन्तां प्रविशतां वा गृहकोकिलादिप्राण्यभिघातो भवेत् । सर्पवृश्चिकादिभिर्वा साधूनामेवाभिघातो भवेत् । द्वितीय द्वारं पिदध्यादपि कथम् ? इत्याह-सिय कारणे पिहिज्जा, जिणजाणग गच्छि इच्छिमो नाउं । आगाढकारणंमि उ, कप्पइ जयणाइ उवएस ॥३॥ स्यात्-कदाचित् कारणे पुष्टालंबने पिदध्यादपि द्वारम् । जिना:-जिनकल्पिका ज्ञायकाः-तस्य कारणस्य सम्यग्वेत्तारः परं द्वारं न पिदधति । शिष्यः प्राह-गच्छे गच्छवासिनां इच्छामो वयं विधि ज्ञातुम्, सुरिराह-आगाढं प्रत्यनीकस्तेनादिरूपं यत्कारणं तत्र यतनया वक्ष्यमाणलक्षणया गच्छवासिनां द्वारं स्थगयितुं-पिधातुं कल्पते । एष नियुक्तिगाथासमासार्थः । अथैनामेव विवृणोति-जाणंति जिणा कज्जं, पत्तेवि उतं न ते निसेवंति । थेरावि उ जाणंती, अणागयं केइ पत्तं तु ॥४॥ जिनाः जिनकल्पिका अधितसातिशयश्रुतास्तत्कार्यमनागतमेव जानन्ति येन द्वारं पिधीयते तच्च प्रत्यनीकस्तेनादिकं वक्ष्यमाणलक्षणं तस्मिश्च प्राप्तेऽपि तत् द्वारपिधानं ते भगवन्तो न निषेवन्ते, निरपवादानुष्ठानपरत्वात् । स्थविरा अपि स्थविरकल्पिकाः अपि सातिशयश्रुतज्ञानाद्युपयोगबलेन केचिदनागतमेव जानन्ति, केचित्तु
||२१९॥