________________
विचार-Nell रत्नाकर:188
विचाराः
11८॥
आस्तामगीतार्थानां सभासमक्षं व्याख्यानकरणादि, अविदितैतत्वोडशविधवचनानां जल्पनमप्यनुचितमित्यभिप्रायो लिख्यते - आचाराङ्ग
“समियाए संजए भासं भासेज्जा । तंजहा - एगवयणं १ दुवयणं २ बहुवयणं ३ इत्थीवयणं ४ पुरिसवयणं ५ नपुंसगवयणं hol६ अज्झत्थवयणं ७ उवनीतवयणं ८।१ अवणीयवयणं ९।२ उवणीयअवणीयवयणं १०३ अवणीयउवणीयवयणं । तीयवयणं १२
पडुप्पन्नवयणं १३ अणागयवयणं १४ पच्चक्खवयणं १५ परोक्खवयणं १६। से एगवयणं वदिस्सामीति एगवयणं वदेज्जा जाव परोक्खवयणं वदिस्सामीति परोक्खवयणं वएज्जा।" वृत्तिर्यथा - भाषासमित्या समतया वा रागद्वेषाकरणलक्षणया षोडशवचनविधिज्ञो भाषां भाषेत । यादृग्भूता च भाषितव्या तां षोडशवचनविधिगतां दर्शयति, तद्यथेत्ययमुपदर्शनार्थ:-एकवचनं वृक्षः१ द्विवचनं वृक्षौ २ बहुवचनं वृक्षाः ३ इति । स्त्रीवचनं वीणा कन्या इत्यादि ४। पुंवचनं घटः पट इत्यादि ५। नपुसंकवचनं पीठं देवकुलमित्यादि ६। अध्यात्मवचनं आत्मन्यधि अध्यात्म हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् ७। उपनीतवचनं प्रशंसावचनं यथा रूपवती | स्त्री ८। तद्विपर्ययेणापनीतवचनं, यथेयं रूपहीनेति ९। उपनीतापनीतवचनं कश्चिद् गुणः प्रशस्यः कश्चिनिन्द्यः, यथा रूपवतीयं स्त्री किं त्वसद्वृत्तेति १०। अपनीतोपनीतवचनं यथाऽरूपवती कुरूपा स्त्री किं तु सद्वृत्तेति ११। अतीतवचनं कृतवान् १२। वर्तमानवचनं करोति १३। अनागतवचनं करिष्यति १४ । प्रत्यक्षवचनमेष देवदत्त: १५। परोक्षवचनं स देवदतः १६। इत्येतानि षोडशवचनान्यमीषां च स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद्यावत्परोक्षवचनमेव ब्रूयात् । इत्याचाराद्वितीयश्रुतस्कन्धचतुर्थभाषाध्ययनप्रथमोद्देशके २३७ प्रतौ २२१ पत्रे ॥ ११॥
निर्लक्षण उपधिनिदर्शनचारित्रोपघातकारित्वान्मुनिभिर्न रक्षणीय इत्यभिप्रायजिज्ञापयिषया लिख्यते -
" से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणिज्जा अप्पंडं जाव संताणगं अनलं अथिरं अधुवं अधारणिज्जं रोइज्जतं न रोच्चइ तहप्पगारं वत्थं अफासुअं जावनो पडिगाहेज्जा" इति । वृत्तिर्यथा- ' से भिक्खू इत्यादि ' स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं
जानीयात्तद्यथा-अल्पाण्डं यावदल्पसन्तानकं किं त्वनलमभीष्टकार्यासमर्थं हीनादित्वात्तथाऽस्थिरं जीर्जमधुवं स्वल्पकालानुज्ञापनात्तथाऽधारणीयSolमप्रशस्तदेशं खञ्जनादिकलङ्काङ्कित्तत्वात्, तथा चोक्तम्-" चत्तारि देवया भागा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, मझे l