________________
विचार-
11७॥
गृहीत्वेत्यर्थः, निःसृत्य दद्यात्तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत्तच्च “ आहच्चत्ति” सहसा प्रतिगृहीतं भवेत्तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेत् । गत्वा च पूर्वमेव तल्लवणादिकमालोकयेद्दर्शयेदेतच्च ब्रूयात्, अमुक इति वा, भगिनी इति वा । एतल्लवणादिकं त्वया जानता दत्तमुताजानता ? एवमुक्तः सन् पर एवं वदेद्यथा-पूर्वं मया जानता दत्तं साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तमेतत्परिभोगं कुरुध्वम् । तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा मुञ्जीत पिबेद्वा । यच्च न शक्नोति भोक्तुं वा पातुं वा तत्साधर्मिकेभ्यो दद्यात्तदभावे च बहुपर्यापन्नविधि प्राक्तनं विदध्यादेतत्तस्य भिक्षोः सामग्र्यम् । इत्याचाराङ्गद्वितीयश्रुतस्कन्धपिण्डैषणाध्ययनदशमोद्देशके २३७ प्रतौ २०३ पत्रे ॥ ९ ॥
इह हि केचिच्चिरन्तनाज्ञानवासनातिमिरनिरुद्धान्तरदृशः परमकृपापीयूषपूरपूतान्तस्श्रीजिनेश्वरा कजीवितां परमार्थदयामजानाना मणिबुद्ध्या अहिलगृहीतोपलशकलन्यायेन स्वमनीषिकाविजृम्भितमेव श्रेयो मन्यमानाः पारगतप्रतिमापूजानिषेधादि यत्किञ्चिब्रुवते, न च तत्तेषां सूत्राज्ञया विहरतां नद्याद्युत्तरतां कारणाद् वृक्षाद्यवलम्बतामाद्यव्रतरक्षणक्षमं द्वितीयव्रतरक्षणक्षमं च । तस्मादाज्ञामनोज्ञैव दयाऽऽश्रयणीया । अन्यथा दयाज्ञयोर्विरोधापत्तिः स्यादिति दर्शनाय लिख्यते
“से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे वा अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा गड्डाओ वा दरिओ वा संते परक्कमे संजयामेव परक्कमेज्जा नो उज्जुअं गच्छेज्जा । केवली बूया आयाणमेयं, से तत्थ परक्कममाणे पयलेज्ज वा पवडेज्ज वा से तत्थ पयलमाणे वा पवडमाणे वा रुक्खाणि वा गुम्माणि वा लयाओ वा वल्लीओ वा तणाणि वा गहणाणि वा हरिताणि वा अवलंबिय अवलंबिय उत्तरेज्जा से (जे) तत्थ पाडिपहिया उवागच्छंति ते पाणी जाएज्जा तओ संजयामेव अवलंबिय अवलंबिय उत्तरेज्जा तओ संजयामेव गामाणुग्गामं दूइज्जेज्जत्ति ।" वृत्तिर्यथा - ‘से इति' स भिक्षु मान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्यस्मिन् संक्रमे तेन ऋजुना पथा न गच्छेद्यतस्तत्र गर्तादौ पतन् सचित्तं वृक्षादिकमवलम्बेत्तच्चायुक्तमथ
कारणिकस्तेनैव गच्छेत् । कथञ्चित्पतितश्च गर्तगतो वल्ल्यादिकमवलम्ब्य प्रातिपथिकहस्तं वा याचित्वा संयत एव गच्छेत् । l इत्याचाराङ्गद्वितीयश्रुतस्कन्धतृतीयाध्ययनद्वितीयोद्देशके २३७ प्रतौ २१९ पत्रे ॥ १० ॥
७||