________________
विचार- रत्नाकरः
आचाराग विचाराः
IIII
निविद्येत न निर्वेदं तपःसंयमयोर्गच्छेत् ? निविण्णश्चेदमपि विभावयेद्यथा नाहं भव्यः स्यां न च मे संयतभावोऽप्यस्तीति, यतः | स्फुटविकटमपि कथितं नावगच्छामि, एवं च निर्विण्णस्याचार्याः समाधिमाहुः, यथा-भो साधो ! मा विषादमवलम्बिष्ठाः, भव्यो भवान् यतो भवता सम्यक्त्वमभ्युपगतं तच्च न ग्रन्थिभेदमृते तद्भेदश्च न भव्यत्वमृतेऽभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः । किं चायं विरतिपरिमाणो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवतावाप्तः । तदेवं दर्शनचारित्रमोहनीये भवतः क्षयोपशमं समागते दर्शनचारित्रान्यथानुपपत्तेः । यत्पुनः कथ्यमानेपि समस्तपदार्थावगतिर्न भवति, तज्ज्ञानावरणीयविजृम्भितम् । तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बनमित्याह । इत्याचाराङ्गप्रथमश्रुतस्कन्धपञ्चमलोकसाराध्ययनपंचमोद्देशके २३७ प्रतौ १३६ पत्रे ॥ ८ ॥
केषाञ्चित्सिद्धान्ततात्पर्यानभिज्ञानामेकान्ततो दयाविडम्बिनां 'सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा' इत्याधुपदेष्टा कथं भगवान् जलपुष्पजीवोपमर्दिनीं प्रतिमापूजामुपदिशति ? इत्यादि वृथावावदूकानामुत्सर्गापवादाद्यनेकविचारवितानगहनश्रीजिनागमसूत्रवैचित्र्यदर्शनाय तादृशं चक्रवर्त्तिगन्धपेषिकापेषणादनचित्तीभवदसंख्यातजीवात्मकमपि लवणमजानता गृहीतं तत्स्वामिना चानुज्ञातं कारणात्स्वयं भुंजीत साधर्मिकेभ्यो वा दद्यात्साधुरिति सूत्रार्थों लिख्येते -
“से भिक्खू वा भिक्खुणी वा जाव समाणे सिया परो अभिहट्ट अंतो पडिग्गहतो बिडं वा लोणं उब्भियं वा लोणं परिभाएत्ता ol णीहट्ट दलएज्जा तहप्पगारं पडिग्गहं परहत्थंसि वा परपायंसि वा अफासुयं जाव नो पडिगाहेज्जा । से आहच्च पडिग्गाहिते सिया तं च
णातिदूरगए जाणिज्जा से तमायाए तत्थ गच्छेज्जा । पुवामेव आलोएज्जा-आउसोत्ति भइणित्ति वा इमं ते किं जाणया दिन्नं उदाह अजाणया दिन्नं ? सो अ भणेज्जा-णो खलु मए जाणया दिन्नं अजाणया दिन्नं, कामं खलु आउसो इयाणिं निसिरामि तं भुंजह च णं परिभाएह च णं । तं परेहि समणुण्णायं समणुसिटुं तत्तो संजयामेव भुंजेज्ज वा पिएज्ज वा जं च णो संचाएति भोत्तए वा पात्तए वा साहम्मिया तत्थ वसंति संभोइया समणुण्णा अपरिहारिया अदूरगया तेसिमणुप्पदायव्वं सिया" इति । वृत्तिर्यथा- ‘से इत्यादि' स भिक्षुर्गृहादौ प्रविष्टस्तस्य स्यात्कदाचित् परो गृहस्थः । ' अभिहट्ट अंतो इति' अन्तः प्रविश्य पतद्गृहे काष्टच्छब्बकादौ ग्लानाद्यर्थं खण्डादियाचने सति बिडं वा लवणं खनिविशेषोद्भवमुद्भिजं वा लवणाकराद्युत्पन्नं “परिभाएत्तात्ति” दातव्यं विभज्य दातव्यद्रव्यात्किञ्चिदंश
||६||