________________
विचार-
||५||
केचित्केवलिशरीरात्सर्वथा जीवविराधना न भवतीत्यूचुः । आगमाज्ञया तु केवलिना यावच्छैलेशीप्रतिपन्नानामपि शरीरादवश्यं भावितया जायमाना जीवविराधना न विरुध्यते । कर्मबन्धवैचित्र्यं भवतु नाम । इत्यर्थविजिज्ञापयिषया लिख्यते -
" एगया गुणसमितस्स रीयतो कायफासमणुचिन्ना एगतिया पाणा उद्दायंतित्ति " । वृत्तिर्यथा-एकदा कदाचिद्गुणसमितस्य गुणयुक्तस्याप्रमत्तयते: रीयमाणस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामतः सङ्कुचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्याञ्चिदवस्थायां कायः शरीरं तत्संस्पर्शमनुचीर्णाः कायसङ्गमागताः संपातिमादयः प्राणिन एके परितापमाप्नुवन्त्येके ग्लानतामुपयान्त्येके च ध्वंसमापद्यन्ते । अपश्चिमावस्थां तु सूत्रकृदेव दर्शयति-एके प्राणाः प्राणिनोऽपद्रान्ति प्राणैर्विमुच्यते । अत्र च कर्मबन्धं प्रति विचित्रता।
तथाहि-शैलेश्यवस्थायां मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः । उपशान्त११क्षीणॐ मोह१२सयोगिकेवलिनां १३ स्थितिनिमित्तकषायाभावात्सामयिकः । अप्रमत्तयतेर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कुष्टतोऽन्तःकोटाकोटी स्थितिरिति । प्रमत्तस्य त्वनाकुट्टिकयोपेत्य प्रवृत्तस्य क्वचित्पाण्याद्यवयवसंस्पर्शात्प्राण्युपतापनादौ जघन्यतः कर्मबन्ध उत्कृष्टतश्च प्राक्तन एव विशेषिततर इत्यादि । इत्याचाराङ्गप्रथमश्रुतस्कन्धपञ्चमलोकसाराध्ययनचतुर्थोद्देशकवृत्तौ २३७ प्रतौ १३२ पत्रे ॥ ७ ॥
अभव्यस्य भव्यत्वाभव्यत्वशङ्का न स्यादित्यभिप्रायो लिख्यते -
" सिया वेगे अणुगच्छन्ति असिया वेगे अणुगच्छंति अणुगच्छमाणेहिं अणणुगच्छमाणे कहं न निविज्जे " । वृत्तिर्यथा- 'सिया इत्यादि ' सिताः पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, " एगे अणुगच्छंतित्ति", एके लघुकर्माणः सम्यक्त्वं प्रतिपादयन्तमाचार्यमनुगच्छन्त्याचार्योक्तं प्रतिपद्यन्ते । तथा, असिता वा गृहपाशविमुक्ता वैके विचिकित्सावादरहिता आचार्यमार्गमनुगच्छन्ति, तेषां च मध्ये यदि कश्चित्कडूटुकदेश्यः स्यात्, स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कर्मविवरतः प्रतिपद्येताऽपीति दर्शयितुमाह-'अणुगच्छमाणेहिं इत्यादि' आचार्योक्तं सम्यक्त्वमनुगच्छद्भिर्विरतैर्विरताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽननुगच्छन्नप्रतिपद्यमानः कथं न निर्वेदं गच्छेद् ? असदनुष्ठानस्य मिथ्यात्वादिरूपां विचिकित्सां परित्यज्याचार्योक्तं सम्यक्त्वमेव प्रतिपद्यत इत्यर्थः । यदि वा | सितासितैराचार्योक्तमनुगच्छद्भिर्बुध्यमानैः सद्भिः कश्चिदज्ञानोदयान्मतिजाड्यतया क्षपकादिश्चिरप्रवजितोऽप्यननुगच्छन्ननवधारयन् कथं न
|५||