________________
विचार- 888 ३९५ प्रतौ १४२ पत्रे ।। ११ ।। रत्नाकरः । 888
१९१||
अथ प्रतिपदमागमोक्तमपि सदयहृदयैः सहृदयैरागमोक्तयुक्तिभिर्बोध्यमानानपि योगोद्वहनमश्रद्दधतः कांश्चिद्देवानाप्रियान् वीक्ष्य दूरबोधिबोधाय तीर्थङ्करोऽप्यशक्त इति निःप्रत्याशत्वेऽपि कथमपि भवतूपकार इति योगाक्षराणि लिख्यन्ते
वसे गुरुकुले निच्चं, जोगवं उवहाणवं । पियंकरे पियंवाई, से सिक्खं लद्धमारिहइ ॥ १४ ॥ इति । वृत्तिर्यथा वसेदासीत क्व ? गुरूणां-आचार्यादीनां कुलं-अन्वयो गच्छ इत्यर्थः । गुरुकुलं तत्र तदाज्ञोपलक्षणं च कुलग्रहणम्, नित्यं सदा, किमुक्तं भवति ? यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेत् । उक्तं च- “ णाणस्स होइ भागी ” इत्यादि, योगो व्यापारः स चेह प्रक्रमाद्धर्मगतः एव तद्वान्, उपधानं-अङ्गानङ्गाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान्, यद्यस्योपधानमुक्तं न तत्कृछ्रभीरुतयोत्सृज्यान्यथैवाऽधीते शृणोति वा, प्रियं-अनुकूलं करोतीति प्रियङ्करः कथञ्चित्केनचिदपकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियकारिण्यपि प्रियमेव चेष्टते इदं च भावयति " अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते । धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥ १ ॥ " अत एव च 'पियंवाइ' त्ति केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियवादी । उक्तं च- " सिक्खह पियाइ वोत्तुं सव्वो तूसइ पियं भाणं । किं कोइलाहि दिण्णं, कस्स हियं किं च काहिं ? ॥ १ ॥ करयलमहिअस्स वि दमणयस्स महमहइ पेसलो गंधो । तवियस्स वि सज्जणमाणुसस्स महुरो समुल्लावो ॥ २ ॥ " अन्यच्च - " सुजनो न याति विकृतिं, परिहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः, सुरभयति मुखं कुठारस्य || ३ || ” तथा चास्य को गुणः ? इत्याह- स एव गुणविशिष्टः शिक्षां शास्त्रार्थग्रहणादिरूपां लब्धुं -आप्तुमर्हति-योग्यो भवतीति, अनेनैवाविनीतस्त्वेतद्वीपरीतः शिक्षां च लब्धुं नार्हतीत्यर्थादुक्तं भवति । तथा च यः शिक्षां लभते बहुश्रुतः इतरस्त्वबहुश्रुत इति भाव:, इति सूत्रार्थः । इति श्रीएकादशोत्तराध्ययनचतुर्दशसहस्त्र्यां ३९५ प्रतौ १७० पत्र ।। १२ ।। अथाष्टमीचतुर्दश्योर्वाचना न देया, इत्यक्षराणि लिख्यन्ते
D
" अट्ठमिपरिक मोत्तुं, वायणाकालमेव य सेसकालंमि इंतीओ, नेयाओ अकालचारीओ ” इति श्रीउत्तराध्ययनचतुर्दशसहस्यां षोडशाध्ययनवृत्तौ २१९ पत्रे ॥ १३ ॥
သာ ာ ာ ာ ာ ာ ာ ာ ာာာာာာာာာာာာာာ
॥१९१॥