________________
उत्तराध्ययनविचाराः
।।१९२
विचार
अथौघनियुक्तिसूत्रवृत्तिविशेषा गाथा-तत्र प्रथमं चतुर्णामनुयोगानां स्वरूपं, तेषां प्राधान्याप्राधान्ये च जिज्ञासया लिख्यतेरत्नाकरः वा
___चत्तारि उ अणुओगा, चरणे धम्मगणियाणुयोगे य । दविअणुओगे य तहा, अहक्कम ते महिड्डीया ॥ ७ ॥ व्याख्या-' चत्तारि' चत्वारोऽनुयोगाः, तुशब्दाद् द्वौ च पृथकत्वापृथक्त्वभेदात्, 'चरणे' उत्तरपदलोपादिस्थमुपन्यासः, अन्यथा चरणकरणानुयोग इत्येवं वाच्यम्, स चैकादशाङ्गरूपः, धर्मानुयोग-उत्तराध्ययनप्रकीर्णकरूपः, गणितानुयोगः-सूर्यप्रज्ञप्त्यादिरूपः, चशब्दः प्रत्येकमनुयोगपदसमुच्चायकः, द्रव्यानुयोग:-सदसत्पर्यालोचनारूपः, स च दृष्टिवादः, चशब्दादनार्षः । यथाक्रमं ते महर्द्धिका:-प्रधानाः एवं व्याख्याते सत्याह पर:चरणपदं भिन्नाया विभक्त्या किमर्थमुपन्यस्तम् ? धर्मगणितानुयोगौ तु एकयैव विभक्त्या, पुनर्रव्यानुयोगो भिन्नया विभक्त्येति ? तथाऽनुयोगशब्द एक एवोपन्यसनीयः, किमर्थं द्रव्यानुयोग इति भेदेनोपन्यासः इति ?, उच्यते-चरणपदस्य भेदोपन्यासे एतत्प्रयोजनं, चरणकरणानुयोग एवात्राधिकृतः प्राधान्यख्यापनार्थं भिन्नया विभक्त्योपन्यासः, धर्मगणितानुयोगावभिन्नावुपन्यस्तौ, तावत्र प्रक्रमेऽप्रधानाविति प्रदर्शनार्थम्, द्रव्यानुयोगस्य भिन्नत्वे इदं कार्यम्-यदयं हि एकैकानुयोगो मेलनीयः, न पुनलौकिकशास्त्रवधुक्तिभिर्विचारणीयः अनुयोगशब्दद्वयोपन्यासे इदम्-यत्रयाणां पदानामन्तेऽनुयोगपदं तदपृथक्त्वाऽनुयोगार्थम्, यच्च द्रव्यानुयोग इति तत्पृथक्त्वानुयोगार्थम् । आह पर: यथाक्रमं महर्द्धिका इति चरणलघुत्वं तत्किमर्थं तस्य नियुक्तिः क्रियते ? अपि तु द्रव्यानुयोगस्यैव क्रियताम् ? गुरुराह-सविसयबलवत्तं पुण, जुज्जइ तहवि य महिड्डियं चरणं । चारित्तरक्खणट्ठा, जेणियरे तिण्णि अणुओगा ॥ ८ ॥'सविसय०' स्वविषये बलं वर्त्तते सर्वेषामात्मीयात्मीयविषये बलवत्त्वायुज्यते बलं तथाऽपि महर्द्धिकं चरणम्, शेषानुयोगानां चरणकरणार्थमेवोपादानादपरे वृत्तिभूताः । कथम् ? चारित्ररक्षणार्थमिति चेत्तदाह-चरणपडिवत्तिहेडं, धम्मकहा कालदिक्खमाईया । दविए दंसणसुद्धी, दंसणसुद्धस्स चरणं तु ॥ ९ ॥ चरणप्रतिपत्तेर्हेतुः किं तदाह-धर्मकथा काले दीक्षादयः शोभननक्षत्रतिथ्यादौ प्रव्रज्याप्रदानं कर्त्तव्यम्, द्रव्यानुयोगे दर्शनशुद्धिः, दर्शनशुद्धस्य चारित्रम्, विशेषेण चारित्रशुद्धस्य दर्शनं दृष्टान्तमाह-जह रण्णो विसएसुं, वइरे कणगे य रयय लोहे य । चत्तारि आगरा
खलु, चउण्ह पुत्ताण ते दिना ॥ १० ॥'जह' यथा राज्ञो विषयेषु जनपदेषु वज्रकनकरजतलोहाकराः पुत्राणां ते प्रदत्ताः ॥ १० ॥ laol चिंता लोहागरिए, पडिसेहं कुणइ सो य लोहस्स । वइराईहिं गहणं, करिति लोहस्स तिण्णियरे ॥ ११॥ चिन्ता लोहाकरोऽस्यास्तीति
||१९||