________________
19८४ा
aal तमःप्रभायामिति । देशविरतिसहिताः पञ्चचतुर्दशभागान् स्पृशन्ति अच्युते उत्पद्यमानाः, चशब्दाव्यादींश्च । अन्यत्रेति अधस्तु ते न | दशवैकारत्नाकरः
लिकगच्छन्त्येव तं परिणामापरित्यज्येत्यर्थः ॥ १३ ॥ साम्प्रतं भावस्पर्शनोच्यते-श्रुतादिसामायिकं कियद्भवैः स्पृष्टम् ? इत्याह-सव्वजीवेहि
विचाराः सुअं, सम्मचरित्ताइ सव्वसिद्धेहिं । भागेहि असंखिज्जेहि, फासिया देसविरई उ ॥ १४ ॥ सर्वजीवैः सांव्यवहारराश्यन्तर्गतैः सामान्यश्रुतं as स्पृष्टम् । तथा सर्वसिद्धैः सम्यक्त्वचारित्रे स्पृष्टे तदनुभवमन्तरेण सिद्धत्वानुपपत्तेः, तथा सिद्धभागैरसङ्घयेयैः स्पृष्टा देशविरतिः । इदमत्र
हृदयम्-सर्वसिद्धानां बुद्ध्या असङ्खयेयभागीकृता असङ्खच्यभागैरेकभागोनैर्देशविरतिः स्पृष्टा, असङ्घच्यभागेन तु न स्पृष्टा, यथा मरुदेवीस्वामिन्येति गाथार्थः ॥ १४ ॥ इत्यावश्यकमलयगिरिवृत्तो ४३५ प्रतौ ३४२ । ३४३ पत्रे ॥ ३ ॥
अथ श्रीदशवैकालिकविचारा यथाअज्ञातपरम्पराः केचन धर्मलाभं न वदन्ति तदज्ञानम्, अवग्रहयाचनेऽर्थाद्धर्मलाभस्यायातत्वात् । तथा हि
साणीपावारपिहियं, अप्पणा नावपंगुरे । कवाडं नो पणुल्लिज्जा, उग्गहं से अजाइया ॥ १८ ॥ वृत्तिर्यथा-शाणी-अतसीवल्कलजा पटी, प्रावारः-प्रतीतः कम्बलाद्युपलक्षणमेतत्, एवमादिभिः विहितं-स्थगितं गृहमिति वाक्यशेषः । आत्मना-स्वयं नापवृणुयात्-नोद्घाटयेत् । अलौकिकत्वेन तदन्तर्गतभुजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात् । तथा कपाटं-द्वारस्थगनं न प्रेरयेत्-नोद्घाटयेत्, पूर्वोक्तदोषप्रसङ्गात्, किमविशेषेण ? न इत्याह-अवग्रहमयाचित्वा, आगाढप्रयोजनेऽननुज्ञाप्यावग्रहंविधिना धर्मलाभमकृत्वा ॥ १८ ॥ इति श्रीदशवकालिकपिण्डैषणाध्ययनप्रथमोद्देशके ११४ पत्रे ॥ ४ ॥
गृहस्था हि मुधादायिनः प्रशस्याः साधवश्च मुधाजीविनः प्रशस्याः । उक्तोऽर्थश्च दृष्टान्तद्वारा सुखाधिगम्यो भवतीति सदृष्टान्तं मुधादायिमुधाजीविस्वरूपं लिख्यते
दुल्लहा उ मुहादाई, मुहाजीवी वि दुल्लहा । मुहादाई-मुहाजीवी, दोऽवि गच्छंति सुग्गई ।। १०० ॥ इति । वृत्तिर्यथा-दुर्लभा एव मुधादातारः, तथाविधभागवतवत्, मुधाजीविनोऽपि दुर्लभाः, तथाविधक्षुल्लकवत् । अमीषां फलमाह-मुधादातारो मुधाजीविनश्च द्वावप्येतो 119८४|| गच्छतः सुगति-सिद्धिगतिं कदाचिदनन्तरमेव कदाचिद्देवलोकसुमानुष्यत्वप्रत्यागमनपरम्परया, ब्रवीमीति पूर्ववत् । अत्र भागवतोदाहरणम्