________________
विचार- | भागमात्रा: समयाः, तथा अष्टौ समयाश्चारित्रे निरन्तरं प्रतिपत्तिकालः, सर्वेषां जघन्योऽविरहितप्रतिपत्तिकालो द्वौ समयाविति गाथार्थः । | रत्नाकरः
अथ विरहकालद्वारं प्रदर्श्यते-सुअसम्म सत्तयं खलु, विरयाविरईअ होइ बारसगं । विरए य पन्नरसगं, विरहिअकोलो अहोरत्ता ॥ ९ ॥ श्रुतसम्यक्त्वयोरुत्कृष्टः प्रतिपत्तिविरहकालः सप्तकं-अहोरात्रसप्तकम्, ततः परमवश्यं क्वचित् कश्चित् प्रतिपद्यते, जघन्यतस्त्वेक समय इति । देशविरतेरुत्कृष्टः प्रतिपत्तिविरहकाल अहोरात्रद्वादशकम्, जघन्यतस्तु त्रयः समया इति । सर्वविरतेरहोरात्रपञ्चदशकम्, जघन्यतस्तु
समयत्रयमेवेति गाथार्थः । साम्प्रतं भवद्वारमाह-कियतो भवानेकजीव: सामायिकचतुष्टयं प्रतिपद्यते ? इति दर्शयन्नाह-सम्मत्तदेसविरया, ।।१८३||
पलिअस्सासंखभागमेत्ताओ । अट्ठभवा य चरित्ते, अणंतकालं च सुअसमए ॥ १० ॥ सम्यक्त्ववन्तो देशविरतिमन्तश्च स्वं स्वं सामायिकं क्षेत्रपल्योपमासङ्खयेयभागमात्रान् भवान् यावल्लभन्ते, इदमत्र हृदयम्-एकजीव उत्कर्षतः सम्यकत्वं देशविरति चासङ्घयेयान् भवान् यावल्लभत इत्यर्थः, जघन्यतस्त्वेको भवः । तथोत्कर्षत एकजीवः सर्वविरति अष्टौ भवान् यावत्प्राप्नोति, ततः सिद्ध्यतीति । जघन्यतस्त्वेक एव । तथोत्कर्षत एक जीवः सामान्यश्रुतसामायिकमनन्तान् भवान् यावल्लभते, जघन्यतस्त्वेक भवमेव मरुदेवावच्चेति ॥ १०॥ साम्प्रतमाकर्षद्वारमाह-आकर्षणमाकर्षः प्रथमतया ग्रहणं, मुक्तस्य वा ग्रहणमित्यर्थः । तिण्ह सहस्सपुहुत्तं, सयपुहत्तं च होइ विरईए । एगभवे आगरिसा, एवइया हुंति नायव्वा ॥ ११ ॥ आद्यसामायिकत्रयाणामुत्कर्षत एकभवे सहस्रपृथक्त्वमाकर्षानेकजीव: करोति । सर्वविरतेः शतपृथक्त्वमाकर्षानेकभवे करोति । जघन्यतस्त्वेकमेवेति गाथार्थः ॥ ११॥ नानाभवाकर्षानाह-तिण्ह सहस्समसंखा, सहसपुहुत्तं च होइ विरईए । नाणाभवआगरिसा, एवइया होंति नायव्वा ।। १२ ।। आद्यत्रयाणां सहस्राण्यसङ्ख्येयानि, सर्वविरतेः सहस्रपृथक्त्वं च, एतावन्तो नाना-भवेष्वाकर्षाः । इयं भावना-त्रयाणां ोकभवे सहस्रपृथक्त्वमाकर्षाणामुक्तम्, भवाश्च पल्योपमासङ्ख्येयभागसमयतुल्याः, ततश्च सहस्रपृथक्त्वं, तैर्गुणितं सहस्राण्यसङ्ख्येयानीति । सर्वविरतेरेकभवे शतपृथक्त्वमाकर्षाणामुक्तम्, भवाश्चाष्टौ शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवतीत्यवयवार्थः ॥ १२ ॥ अधुना क्षेत्रस्पर्शनाद्वारमाह-सम्मत्तचरणसहिआ, सव्वं लोअं फुसइ निरवसेसं । सत्त य
चउदसभाए, पंच य सुअदेसविरईए ॥ १३ ॥ सम्यक्त्वचरणयुक्ताः प्राणिन उत्कृष्टतः सर्वं लोकं स्पृशन्ति, एते च केवलिसमुद्धातावस्थायामिति । hol जघन्यतस्त्वसङ्ख्येयभागमिति । तथा श्रुतसामायिकसहिताः सप्तचतुर्दशभागान् स्पृशन्ति अनुत्तरेष्विलिकागत्या समुत्पद्यमानश्चशब्दात्पञ्च
||१८३।।