________________
विचार-
रत्नाकर:
आनश्यक
||१८२।।
कस्य प्रतिपद्यमानकान् प्रतिपादयन्नाह-सम्मत्तदेसविरया, पलिअस्स असंखभागमेत्ताओ । सेढीअसंखभागो, सुए सहस्सग्गसो विरई | मूलसूत्र॥ ४ ॥ उत्कर्षत एकस्मिन् विवक्षितसमये सम्यक्त्वं देशविरतिं च प्रतिपद्यमानाः प्राणिनः क्षेत्रपल्योपमासङ्ख्येयभागमात्राः प्राप्यन्ते,
age विचाराः किन्तु देशविरतिसामायिकप्रतिपत्तृभ्यः सम्यक्त्वप्रतिपत्तारोऽसङ्ख्येयगुणाः प्रतिपत्तव्याः, तथोत्कर्षत एकस्मिन् समये श्रुते सामान्यश्रुते
विचाराः, अक्षरात्मके प्रतिपत्तारोऽसङ्ख्येयाः घनीकृतलोकैकश्रेण्यसङ्घयेयभागमात्रा-लभ्यन्ते । तथा सर्वविरतिप्रतिपत्तार उत्कर्षत एकस्मिन् समये सहस्राग्रशो ज्ञेयाः । तथा जघन्यतश्चतुर्णामपि सामायिकानां प्रतिपत्तार एको द्वौ वेति गाथार्थः । ४ । सम्प्रति प्राक्प्रतिपन्नान् प्रतिपतितांश्च प्रतिपादयन्नाह-सम्मत्तदेसविरया, पडिवना संपई असंखिज्जा । संखिज्जा य चरित्ते, तीसु वि पडिया अणंतगुणा ॥ ५ ॥ सम्यग्दृष्टयो देशविरताश्च प्राक् प्रतिपन्नाः सम्प्रति-विवक्षिते वर्तमानसमये उत्कर्षतो जघन्यतश्चासङ्घयेयाः प्राप्यन्ते इति शेषः । किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः । एते च प्रत्येकं प्रतिपद्यमानकेभ्योऽसङ्ख्येयगुणाः । 'संखिज्जा य चरित्ते' त्ति चारित्रे प्राक्प्रतिपन्ना सवयेयाः, एतेऽपि स्वस्थाने प्रतिपद्यमानकेभ्यो पूर्वप्रतिपन्नेभ्यश्च चरणपतिता अनन्तगुणाः, तेभ्यो देशविरतिपतिता असङ्खयेयगुणाः, तेभ्योऽपि सम्यक्त्वप्रतिपतिता असङ्खयेयगुणाः । तदेवमत्र श्रुतवर्जसामायिकत्रयपूर्वप्रतिपन्नाः, प्रतिपतिताचोक्ताः । ५ । अथ श्रुतस्य तानाह-सुअपडिवन्ना संपइ, पयरस्स असंखभागमेत्ताओ । सेसा संसारत्या, सुअपरिवडिया हु ते सव्वे ॥६॥ सम्यग्मिथ्यारूपस्य सामान्येनाक्षरात्मकस्य श्रुतस्य ये पूर्वप्रतिपन्नास्ते सम्प्रति-वर्तमानसमये प्रतरस्यासङ्घयेयभागमात्राः प्राप्यन्ते । तथा श्रुतप्रतिपन्नमानकेभ्यस्तु ये शेषाः संसारस्था जीवा भाषालब्धिरहिताः पृथिव्यादय इत्यर्थः, ते सर्वेऽपि व्यावहारिकराश्यनुगता भाषालब्धि प्राप्य प्रतिपतितत्वात् श्रुतप्रतिपतिता मन्तव्याः, ते च सम्यक्त्वप्रतिपतितेभ्योऽनन्तगुणाः ॥ ६ ॥अधुनान्तरद्वारमाह-सकृदवाप्तमपगतं पुनः सम्यक्त्वादि कियत्कालेनावाप्यते तत्राक्षरात्मकाविशिष्टश्रुतस्यान्तरं जघन्यतोऽन्तर्मुहूर्त्तम्, उत्कृष्टं त्वाह-कालमणंतं च सुए, अद्धापरियट्टओ य देसूणे । आसायणबहुलाणं, उक्कोसं अंतरं होइ ॥७॥ एकजीवं प्रति कालोऽनन्त एवान्तरं श्रुतेऽक्षरात्मके उत्कर्षतो भवतीति योगः । केषां ? आशातनाबहुलानां इति । साम्प्रतमविरहितद्वारमाह-अथ कियन्तं कालं अविरहेण एको द्वयादयो वा सामायिकं प्रतिपद्यन्ते ? इत्याह-सम्मसुअमगारीणं, आवलिअअसंखभागमेत्ताओ। ||१८२|| अट्ठसमया चरिते, सव्वे वि जहन्नदो समया ॥ ८ ॥ सम्यक्त्वश्रुतदेशविरतिसामायिकानां नैरन्तर्येण प्रतिपत्तिकाल आवलिकासखयेय-.