________________
विचार
रत्नाकरः
तिरिएसु अणुव्वट्टे, तिगं चउक्कं सिया य उव्वट्टे । मणुएसु अणुव्वट्टे, चउरो तिदुगं तु उव्वट्टे ॥ ४४ ॥ व्याख्या- तिर्यक्षु गर्भव्युत्क्रान्तिकेषु संज्ञिष्वनुद्धृतः सन् त्रिकमाद्यं त्रिसामायिकमधिकृत्य प्रतिपत्ता प्रतिपन्नश्च भवतीत्यध्याहारः, 'चउक्कं सिया य उव्वट्टे' hel उद्धृतस्तु मनुष्येष्वायातः स्याच्चतुष्कं स्यात्रिकं स्याविकमधिकृत्योभयथाऽपि भवतीति । 'मणुएसु अणुव्बट्टे चउरो तिदुगं तु उव्वट्टे'
मनुष्येष्वनुद्धतः सन् चत्वारि प्रतिपद्यते प्राक्प्रत्तिपन्नश्च भवतीति, त्रीणि द्विकं तुशब्दो विशेषणे उद्धृतस्तिर्यग्नरामरेष्वायातस्त्रीणि द्विकं
चाधिकृत्योभयथाऽपि भवतीति गाथार्थः । देवेसु अणुव्वट्टे, दुगं चउक्कं सिया य उव्वट्टे । उव्वट्टमाणओ पुण, सव्वो वि न किंचि ||१८१॥ पडिवज्जे ॥ ४५ ॥ व्याख्या-देवेष्वनुद्धृतः सन् द्विकमाद्यसामायिकद्वयमाश्रित्योभयथा भवतीति क्रिया।' चउक्कं सिया य उव्वट्टे' इति
पूर्ववत्, उद्वर्त्तमानकः पुनरपान्तरालगतौ सर्वोऽप्यमरादि न किञ्चित्प्रतिपद्यते, प्राक्प्रतिपन्नस्तु द्वयोर्भवतीति गाथार्थः । इत्यावश्यकमलयगिरिवृत्तौ ४३५ प्रतौ ३३६ पत्रे ॥ २ ॥
अथ सम्यक्त्वादिसामायिकचतुष्कविचारो लिख्यते-प्रथमं सामायिकचतुष्कलाभद्वारमाह
अब्भुट्ठाणे विणये, परक्कमे साहुसेवणाए य । सम्मइंसणलंभो, विरयाविरईअविरईए॥१॥अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, तथा विनये-अञ्जलिप्रग्रहादिरूपे, तथा पराक्रमे कषायजये, तथा साधुसाध्वीसेवायाम्, तथा विरताविरते:-देशविरतेविरते:सर्वविरतेलाभः ॥ १॥ तच्चतुष्कमित्यं लब्धं सत् कियन्तं कालं जघन्यत उत्कर्षतश्च भवति ? इति स्थितिद्वारं प्रतिपादयन्नाह-सम्मत्तस्स सुअस्स य, छावट्ठीसागरोवमाइ ठिई । सेसाण पुव्वकोडी, देसूणा होइ उक्कोसा ॥ २ ॥ सम्यक्त्वस्य श्रुतस्य च लब्धिमङ्गीकृत्य सम्यक्त्वसामायिकश्रुतसामायिकयोरुत्कृष्टा स्थितिः षट्षष्टिः सागरोपमाणि किञ्चिदधिकानि ।। २ ।। कथं इति चेत् ? उच्यते-दो वारे विजयाइसु, गयस्स तिण्णिच्चुए य छावट्ठी । नरजम्मपुव्वकोडी, पुहुत्तमुक्कोसतो अहिअं ॥ ३ ॥ देशविरतिसर्वविरतिसामायिकयोरुत्कृष्टा स्थितिर्देशोना पूर्वकोटी सप्तमासाधिकवर्षाष्टकोना पूर्वकोटीति यावत् । जघन्यतस्त्वाद्यसामायिकत्रयस्य स्थितिरन्तर्मुहूर्त्तम्, सर्वविरतिसामायिकस्यैकः समयः, चारित्रपरिणामारम्भसमयानन्तरमेव कस्याप्यायुष्कक्षयसम्भवात्, देशविरतिपरिणामस्त्वन्तर्मोहूर्तिकः, एवं द्विविधत्रिविधादिभङ्गबहुलप्राणातिपातादिनिवृत्तिरूपत्वात्, सर्वजीवापेक्षया तु सर्वाणि सर्वदा इति । ३ । अथैकस्मिन् समये सामायिकचतु
11१८१॥