________________
रत्नाकरः 88
898 विचाराः
विचार-प्रमाणाङ्गुलनिष्पनैः सातिरेकैकविंशतियोजनलक्षैर्व्यवस्थितमादित्यमवलोकमानाः प्रतिपाद्यन्ते शास्त्रान्तरे, तथा च तद्ग्रन्थ:- “ इगवीसं मूलसूत्रखलु लक्खा, चउवीसं चेव तह सहस्साइं । तह पंचसया भणिया, सत्तत्तीसा य अइरित्ता ॥ १ ॥ इइ नयणविसयमाणं, पुक्खरदीवड्डवासिमणुयाणं । पुव्वेण य अवरेण य, पिहिं पिहिं होइ मणुयाणं ॥ २ ॥ ” ततः कथमुक्तस्वरूपं नयनविषयपरिमाणमात्माङ्गुलेनापि घटते प्रमाणाङ्गुलेनापि व्यभिचारात् । उक्तं च-" लक्खेहि एक्कवीसाइ, साइरेगेहि पुक्खरद्धंमि । उदए पेच्छंति नरा, सूरं उक्कोस दिवसे ।। १ ।। नयणिदियस्स तम्हा, विसयपमाणं जहा सुए भणियं । आउस्सेहपमाणं-गुलेण इक्केण वि न जुत्तं ॥ २ ॥ " सत्यमेतत् केवलमिदं विषयपरिमाणं प्रकाश्यविषयं द्रष्टव्यं न तु प्रकाशकविषयम् । ततः प्रकाशकेऽधिकतरमपि विषयपरिमाणं न विरुध्यते इति न कश्चिद्विरोधः । कथमेतदवसीयते ? इति चेत् उच्यते- पूर्वसूरिकृतव्याख्यानात्, सकलमपि हि कालिकश्रुतं पूर्वसूरिकृतव्याख्यानानुसारेणैव व्याख्यानयन्ति महाधियः, न यथाऽक्षरसन्निवेशमात्रम् । पूर्वगतसूत्रार्थसङ्ग्रहपरतया कालिकश्रुतस्य क्वचित्सङ्क्षिप्तस्याप्यर्थस्य महा विस्तरेण, क्वचिद्विस्तरवतोऽप्यतिसङ्क्षेपेणाभिधाने अर्वाक्तनैः स्वल्पमतिभिर्यथावस्थितार्थतया ज्ञातुमशक्यत्वात् । अत एवोक्तमिदमन्यत्रजं जह भणियं सुत्ते, तहेव जह तं वियालणा नत्थि । किं कालिकाणुयोगो, दिट्ठो दिट्ठिप्पहाणेहिं ॥ १॥ तस्मात्पूर्वसूरिकृतव्याख्यानान्नाधिकृतग्रन्थविरोधः । आह च भाष्यकृत् - सुत्ताभिप्पाओऽयं, पयासणिज्जे तयं नउ पयासे । ख विसेसो, न हि संदेहादिलक्खणया ॥ १ ॥ अथोक्तप्रमाणविषयमुल्लङ्घय कस्माच्छोत्रादि शब्दादिकं न गृह्णाति ? उच्यते-सामर्थ्याभावात्, उत्कर्षतोऽपि श्रोत्रादीनामेतावत्येव शक्तिः । यद्द्द्द्वादशादिभ्य एव योजनेभ्य आगतान् शब्दादीन् गृह्णाति, न परतः । चक्षुरपि 8 सातिरेकयोजनलक्षात्तद्व्यस्थितं, न परतोऽपीति । तथा द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिणामाभावाच्च,
"
33
||१८०||
परतो हि समागताः शब्दपुद्गलास्तथास्वाभाव्यान्मन्दपरिणामास्तथोपजायन्ते येन स्वविषयं श्रोत्रादिज्ञानं नोत्पादयितुमीशाः । आह च भाष्यकृत्बारसहिंतो सोत्तं, सेसाणि नवहि जोअणेहिंतो । गेण्हंति पत्तमत्थं, एत्तो परतो न गेण्हंति ॥ १ ॥ इत्यावश्यकमलयगिरिवृत्तौ ४३५ प्रतौ २३ । २४ । २५ पत्रे ।। १ ।।
अथोद्धृतानुद्धृतेषु तिर्यग्नरामरेषु कियन्ति सामायिकानि भवन्तीति विचारो लिख्यते
ာ က် သာ ဦး ဦ
आनश्यक
विचारा:
||१८०