________________
विचार- 100 सहस्सगुणं' इति वचनात्, ततो भरतसगरादिचक्रवर्तिनां या अयोध्यादयो नगर्यो ये च स्कन्धावारा आत्माङ्गलेन द्वादशयोजनायामतया रत्नाकरः।
सिद्धान्ते प्रसिद्धास्ते उच्छ्याङ्गलप्रमित्या अनेकानि योजनसहस्राणि स्युः, तथा च सति तत्रायुधशालादिषु ताडितभेर्यादिशब्दश्रवणं न सर्वेषामापयेत “बारसहि जोअणेहि, सोयं अहिगिण्हए सई" इति वचनात्, अथ च समस्तनगरव्यापी समस्तस्कन्धावारव्यापी च विजयढक्कादिशब्द आगमे प्रतिपाद्यते, तत एवमागमे प्रसिद्धः पञ्चधनुःशतादि प्रमाणानां मनुष्याणां विषयव्यवहारो व्यवच्छेदं मा
प्रापदित्यात्माङ्गलेनेन्द्रियविषयपरिमाणमवसातव्यम्, नोच्छ्याङ्गलेन । तथा चाह भाष्यकृत्-जं तेण पंचधणुसयनरादिविसयववहारवोछेओ। पावइ 11१७९||
सहस्सगुणियं, जेण पमाणंगुलं तत्तो ॥१॥ अत्र तस्मादात्माङ्गलेनैवेन्द्रियाणां विषयपरिमाणं नोच्छ्याङ्गलेनेति, यदप्युक्तं पाक् देहश्रितानीन्द्रियाणि इति तेषां विषयपरिमाणमुच्छ्याङ्गलेनेति तदप्ययुक्तं, इन्द्रियाणामपि केषाञ्चित्पृथुत्वस्यात्माङ्गलेन मीयमानत्वाभ्युपगमात्, अन्यथा त्रिगव्यूतादिमनुष्याणां रसाद्यभ्यवहारव्यवच्छेदप्रसक्तेः, तथा हि-त्रिगव्यूतादीनां मनुष्याणां षड्गव्यूतादीनां हस्त्यादीनां च स्वशरीरानुसारितया अतिविशालानि मुखानि जिह्वाच, ततो यधुच्छ्याङ्गलेन तेषां क्षुरप्राकारतयोक्तस्याभ्यन्तरनिवृत्त्यात्मकस्य जिह्वेन्द्रियस्याङ्गलपृथ-क्त्वलक्षणो विस्तारः परिगृह्यते तदाऽत्यल्पतया न तत्सर्वां जिह्वां व्याप्नुयात्, सर्वव्यापित्वाभावे च योऽसौ बाहुल्येन सर्वात्मनाऽपि जिह्वया रसावेदनलक्षणः प्रतिप्राणिप्रसिद्धो व्यवहारः स व्यवच्छेदं यायात् । एवं घ्राणादिविषयोऽपि यथायोगं गन्धादिव्यवहारव्यवच्छेदो भावनीयः, तस्मादात्माइलेन जिह्वादीनां पृथुत्वमवसातव्यम्, नोच्छ्याङ्गलेन । आह च भाष्यकृत्-इंदियमाणेवि तयं भयणिज्जं जं तिगाउयाईणं । जिभिदियाइमाणं, संववहारे विरुज्झेज्जा ॥ १॥ अस्याक्षरगमनिका-तदुच्छ्याङ्गलमिन्द्रियमानेऽप्यास्तामिन्द्रियविषयपरिमाणचिन्ताया-मित्यपि शब्दार्थः भजनीयंविकल्पनीयं, क्वापि गृह्यते क्वापि न गृह्यते इत्यर्थः । किमुक्तं भवति ? स्पर्शनेन्द्रियपृथुत्वपरिमाणचिन्तायां ग्राहमन्येन्द्रियपृथुत्वपरिमाणचिंतायां तु न ग्राह्यम्, तेषामात्माङ्गलेन परिमाणकरणादिति । कथमेतदवसेयमिति चेत् ? तत आह-यत् यस्मात्सर्वेषामपीन्द्रियाणामुच्छ्याङ्गलेन परिमाणकरणे त्रिगव्यूतानामादिशब्दाद्दिवगव्यूतादिपरिग्रहः, जिह्वेन्द्रियादिमानं सूत्रोक्तं संव्यवहारे विरुध्येत । यथा च विरुध्येत तथाऽनन्तरमेव
भावितं, तस्मात्सर्वमिन्द्रियविषयपरिमाणमात्माइलेनैवेति स्थितम् । ननु भवत्वात्माङ्गलेन विषयपरिमाणं तथाऽप्युक्तस्वरूपं चक्षुरिन्द्रियविषयपरिमाणं hol न घटते, अधिकस्यापि तद्विषयपरिमाणस्यागमान्तरे प्रतिपादनात् । तथा हि-पुष्करवरार्द्ध मानुषोत्तरपर्वतसमीपे मनुष्याः कर्कसङ्क्रान्तौ
१७९||