________________
_विचार ॥ २ ॥ फरसाणंतरमत्तप्पएसमीसीकयाइ घिप्पंति । पडुयरविण्णाणाई, जं च न घाणाइ करणाई ॥ ३ ॥
मूलसूत्र
रत्नाकरः ॥ 888
नन्विदमुक्तं योग्यदेशावस्थितमेव रूपं पश्यति नायोग्यदेशावस्थितम्, तत्र कियान् चक्षुषो (श्रोत्रादीनां विषयः ? कियतो 888 विचाराः 8 देशादागतं श्रोत्रादि शब्दादिकं गृह्णाति ? उच्यते श्रोत्रं तावत् शब्दं जघन्यतोऽङ्गुलसङ्ख्येयभागमात्रदेशात् उत्कर्षतस्तु द्वादशभ्यो योजनेभ्यः, विचाराः चक्षुरिन्द्रियमपि जघन्यतोऽङ्गलसङ्ख्येयभागावस्थितं पश्यति उत्कर्षतस्तु सातिरेकयोजनशतसहस्रव्यवस्थितम्, घ्राणरसनस्पर्शनानि तु जघन्येनाङ्गुलासङ्ख्येयभागमात्राद्देशादागतं गन्धादि गृह्णान्ति उत्कर्षतस्तु नवभ्यो योजनेभ्यः ।
नन्वङ्गुलं त्रिधा भवति तद्यथा-आत्माङ्गुलं उच्छ्रयाङ्गुलं प्रमाणाङ्गुलं च । तत्र-जेणं जया मणुसा, तेसिं जं होइ माणरूवं तुं । तं भणियमिहायँगुलमणिययमाणं पुण इमं तु ॥ १ ॥ इत्येवं रूपमात्माङ्गुलम् । परमाणू तसरेणू, रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो, अट्ठगुणविवड्डिया कमसो ॥ २ ॥ इत्यादिरूपसमुच्छ्रयाङ्गुलम् । उस्सेहंगुलमेगं, हवइ पमाणंगुलं सहस्सगुणं । तं चेव दुगुणियं, खलु वीरस्सायंगुलं भणियं ॥ ३ ॥ इत्येवं लक्षणं प्रमाणाङ्गुलम् । तत्रात्माङ्गुलेन प्रमीयते तत्तत्काले वापीकूपादिकं वस्तु, उच्छ्रयाङ्गुलेन | रतिर्यग्देवनैरयिकशरीराणि, प्रमाणाङ्गुलेन नगपृथिवीविमानानि । उक्तं च- “आयंगुलेण वत्युं, उस्सेहपमाणतो मिणसु देहं । नगपुढविविमाणाइं, मिणसु पमाणंगुलेणं तु ।। १ ।। तत्रेदमिन्द्रियविषयपरिमाणं किमात्माङ्गुलेन प्रतिपत्तव्यमाहोस्विदुच्छ्रयाङ्गुलेन ? उच्यते-आत्माङ्गुलेन, तथा चाह-चक्षुरिन्द्रियविषयपरिमाणचिन्तायां भाष्यकृत- अप्पत्तकारि नयणं, मणो य नयणस्स विसयपरिमाणं । आयंगुलेण लक्खं, अइरित्तं जो तु ।। २ ।। ननु देहप्रमाणमुच्छ्रयाङ्गलेन देहाश्रितानि चेन्द्रियाणि ततस्तेषां विषयपरिमाणमप्युच्छ्रयाङ्गलेन वक्तुमुचितम्, कथमुच्यते आत्माङ्गुलेन ?, नैष दोष:, यद्यपि हि नाम देहाश्रितानीन्द्रियाणि तथाऽपि तेषां विषयपरिमाणमात्माङ्गुलेन देहान्यत्वाद्विषयपरिमामस्य, तथा चामुमेवार्थमाक्षेपपुरस्सरं भाष्यकृदाह-नणु भणियमुस्सयंगुलपमाणतो जीवदेहमाणाइं । देहपमाणं तं चिय, न उ इंदियविसयपरिमाणं ॥ अत्र — देहपमाणं तं चिय ’ इति यत्तत् उच्छ्रयाङ्गुलमेयत्वेनोक्तं तद्देहप्रमाणमात्रमेव, न त्विन्द्रियविषयपरिमाणम्, तस्यात्माङ्गुलप्रमेयत्वात् । अथ यदि विषयपरिमाणमिन्द्रियाणामुच्छ्रयाङ्गुलेन स्यात्ततः को दोष आपद्येत ? उच्यते- पञ्चधनुः शतादिमनुष्याणां विषयव्यवहारव्यवच्छेदः । तथा हि-यद्भरतस्यात्माङ्गुलं तत्किल प्रमाणाङ्गुलम्, तच्च प्रमाणाङ्गुलमुच्छ्रयाङ्गुलसहस्रेण भवति । — उस्सेहंगुलमेगं, हवइ पमाणंगुलं
।।१७८||
888888888
आनश्यक
।।१७८||