________________
विचार- 108 स्थितिमता भवितव्यं तत्र रूपस्पर्शरसगन्धानां पृथिव्यादिमहाभूतचतुष्टयमाश्रयः शब्दस्य त्वाकाशमिति तदयुक्तम्, एवं सति पृथिव्यादीनामप्याकाशारत्नाकरः।
श्रितत्वेनाकाशगुणत्वप्रसक्तेः । अथ नाश्रयणमात्रं तद्गुणत्वनिबन्धनं किन्तु समवायः, स चास्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति । ननु कोऽयं समवायो नाम एकलोलीभावेनावस्थानम्, यथा पृथिव्यादे रूपादिभिरिति चेत् ? न तर्हि शब्दस्याकाशगुणत्वं, आकाशेन सहास्यैकलोलीभावेनाप्रतिपत्तेः । अथाकाशे उपलभ्यमानत्वात्तद्गुणता शब्दस्य तर्हि तूलकादेरप्याकाशे उपलभ्यमानत्वात्तद्गुणता प्राप्नोति,
अथ तूलकादेः परमार्थतः पृथिव्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वात्, यद्येवं तर्हि शब्दस्यापि परमार्थतः स्थानं श्रोत्रादि, 11१७७||
यत्पुनराकाशेऽवस्थानं तद्वायुना सञ्चार्यमाणत्वात् । तथा हि-यतो यतो वायुः सञ्चरति ततस्ततः शब्दोऽपि गच्छति, वातप्रतिकूलं शब्दस्याश्रवणात् । उक्तं च प्रज्ञाकरगुप्तेन-" यथा वा प्रेर्यते तूलमाकाशे मातरिश्वना तथा शब्दोऽपि किं वायोः, प्रतीपः कोऽपि शब्दवितः ॥" तन्नाकाशगुणः शब्दः, किन्तु पुद्गलमय इति । तथा रूप्यत इति रूपम् तत्रूपं पुनः पश्यति-गृह्णात्युपलभ्यत इति यावत् । अस्पृष्टंअनालिङ्गितं गन्धादिवन्न सम्बद्धमित्यर्थः । तुशब्द एवकारार्थः स चावधारणे, रूपं पुनः पश्यन्नस्पृष्टमेव, चक्षुषोऽप्राप्यकारित्वात् एतच्च प्रागेव भावितम् । पुनः शब्दो विशेषणार्थः, स चैतद्विशिनष्टि अस्पृष्टमपि योग्यदेशावस्थितं न पुनरयोग्यदेशावस्थितममरलोकादि । गन्थ्यते आघायत इति गन्धस्तम्, 'रस' आस्वादने, रस्यतेऽनेनेति रसस्तञ्च स्पृश्यत इति स्परस्तिञ्च, चशब्दो पूरणार्थो । बद्धस्पृष्टमिति बद्धंआश्लिष्टं तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः, स्पृष्टं पूर्ववत्, प्राकृतशैल्या चेत्थमुपन्यासो' बद्धपुटुं' इति । परमार्थतस्तु स्पृष्टं च तद्वद्धं च स्पृष्टबद्धमिति द्रष्टव्यम् । आह-यद्वद्धं गन्धादि तत्स्पृष्टं भवत्येव, अस्पृष्टस्य सम्बन्धायोगात्, तत्र स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थमिति नैष दोषः, शास्त्रारम्भस्य सर्वश्रोतृसाधारणत्वात् । त्रिविधा हि श्रोतारः केचिदुद्घटितज्ञाः केचिन्मध्यबुद्धयः तथाऽन्ये प्रपञ्चितज्ञाः, तत्र प्रपञ्चितानामनुग्रहाय गम्यमानस्याप्यभिधानमदोषायेति । प्रकृतभावार्थस्त्वयम्-गन्धद्रव्याणि स्वल्पानि स्थूलानि तदन्यवासनकानि घाणादीनि चेन्द्रियाणि श्रोत्रेन्द्रियापेक्षया अपटूनि, ततो घ्राणेन्द्रियादिगणो गन्धादि आलिहितानन्तरमात्मप्रदेशैरात्मीकृतं गृह्णाति नान्यथेति, एवं व्यागृणीयात् प्रतिपादयेत् प्रज्ञापकः स्वशिष्येभ्यः । एतदेव व्याख्यानं भाष्यकारोऽप्याह-पुढे रेणुं व तणुंमि, बद्धमप्पीकयं पएसेहिं । छिक्काई चिय गिण्हेइ, सद्ददव्वाइ जं ताई ॥१॥ बहुसुहुमभावगाई, जं पडुयरं च सोयविन्नाणं । गंधादियदव्वाई, विवरीयाइं जतो ताई
11१७७॥