________________
मूलसूत्रविचाराः आनश्यक
विचाराः
विचार-10 समीपस्थैर्दूरस्थैश्च ग्रहणमेककालं भवेत् यथा चक्षुषा योग्यदेशावस्थितानां घटपटादीनाम् ; क्रमेण च ग्रहणमनुभूयते पूर्वं समीपस्थैरिति ।
यदपि चोक्तं चाण्डालस्पर्शदोष इति तदपि चेतनाविकलपुरुषभाषितमिवासमीचीनम्, स्पर्शास्पर्शव्यवस्था हि लोककाल्पनिकी, न पारमार्थिकी । तथा हि-यामेव भुवमग्रे चाण्डालः स्पृशन् याति तामेव पृष्ठतः श्रोत्रियोऽपि, तथा यामेव नावमारोहति चाण्डालस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतश्चाण्डालं स्पृष्ट्वा श्रोत्रियमपि स्पृशति, न च तत्र लोके स्पर्शदोषव्यवस्था, तथा शब्दपुद्गलसंस्पर्शेऽपि
न भवतीति न कश्चिद्दोषः । अन्यच्च यदा केतकीदलनिचयं शतपत्रादिपुष्पनिचयं वा शिरसि निबद्ध्य वपुषि वा मृगमदचन्दनाद्यवलेपन119७६
मारचय्य विपणिवीथीमागत्य चाण्डालोऽवतिष्ठते तदा तद्गतकेतकीदलादिगन्धपुद्गलाः श्रोत्रियादिनासिकास्वपि प्रविशन्ति, ततस्तत्रापि चाण्डालस्पर्शदोषः प्राप्नोतीति तद्दोषभयानासिकेन्द्रियमप्राप्यकारि प्रतिपत्तव्यम्, न चैतद्भवतोऽप्यागमे प्रतिपाद्यते ततो बालिशजल्पितमिति कृतं प्रसङ्गेन । केचित् पुनः श्रोत्रेन्द्रियस्य प्राप्यकारिताभ्युपगच्छन्तः शब्दस्याम्बरगुणत्वं प्रतिपन्नाः तदश्लीलमाकाशगुणतायां शब्दस्यामूर्तत्वप्रसक्तेः, यो हि यद्गुणः स तत्समानधर्मा यथा ज्ञानमात्मनः, तथा हि-अमूर्त आत्मा ततस्तद्गुणो ज्ञानमप्यमूर्तमेव, एवं शब्दोऽपि यद्याकाशगुणस्तर्हि आकाशस्यामूर्त्तत्वाच्छब्दस्यापि तद्गुणत्वेनामूर्त्तता भवेत् न चासौ युक्तिसङ्गता तल्लक्षणायोगात्, मूर्तिविरहो ह्यमूर्तता, न च शब्दानां मूर्त्तिविरहः स्पर्शवत्त्वात् । तथा हि-स्पर्शवन्तः शब्दास्तत्सम्पर्के उपघातदर्शनाल्लोष्टवत्, न चायमसिद्धो हेतुः, यतो दृश्यते सद्योजातबालकानां कर्णदेशाभ्यर्णगाढास्कालितझल्लरीझात्कारश्रवणतः श्रवणस्फोटः, न चेत्थमुपघातकृत्त्वमस्पर्शवत्वे सम्भवति यथा हि विहायसः, ततो विपक्षे गमनासम्भवानकान्तिकोऽपि, अतश्च स्पर्शवन्तः शब्दाः, तैरभिघाते गिरिगह्वरभित्यादिषु शब्दोत्थानाल्लोष्टवत्, अयमपि हेतुरुभयोरपि सिद्धः । तथा हि श्रूयन्ते तीव्रप्रयत्नोच्चारितशब्दाभिघाते गिरिगह्वरादिषु प्रतिशब्दोः प्रतिदिक्, ततः स्पर्शवत्वान्मूर्त्ता
एव शब्दाः, 'रूपस्पर्शादिसन्निवेशो मूर्ति' रिति वचनात्, ततः कथमिवाकाशगुणत्वं शब्दानामुपपत्तिमत् । अपि च तदाकाशमेकमनेक ae वा, यद्येकं तर्हि योजनलक्षादपि श्रूयेत् आकाशस्यैकत्वेन शब्दस्य तद्गुणतया दूरासन्नादिभेदाभावात्, अथानेकमेवं सति वदनदेशे एव स
विद्यते इति कथं भिन्नदेशवर्तिभिः श्रूयते, वदनदेशाकाशगुणतया तस्य श्रोत्रेन्द्रियाकाशसम्बन्धाभावात् । अथ च श्रोत्रेन्द्रियाकाशसम्बद्धतया Jeel तच्छ्रवणमभ्युपगम्यते तन्न श्रेयानाकाशगुणत्वाभ्युपगमः । नन्वाकाशगुणत्वमन्तरेण शब्दस्यावस्थानमेव नोपपद्यते, अवश्यं हि पदार्थेन
||१७६||