________________
विचार- 108| कश्चित् परिव्राजकः कञ्चनापि भक्तिमन्तं भागवतमवादीत्-यदि मदीयोदन्तमुद्वहसि ततोऽहं तव गृहे वर्षासमय निर्वाहयामि, तेनोक्तम्,रत्नाकरः यदि मदीयां तप्ति न करोषि, तेनोक्तम्-एवं करिष्ये, ततः प्रदत्तस्तेन तस्मै समाश्रयः । न क्षुण्णं चकार भोजनादिस्तस्य गृहाधिपतिः ।
अतिक्रान्ते कियत्यपि काले एकदा प्राप्तच्छिद्रैश्चोरैस्तस्य भागवतस्य प्रधानोऽश्वः प्रमादेन रक्षकाणामपनः । प्रभातं वर्तते, इति न शक्तास्ते तमश्वं निर्वोढुम्, ततोऽतिगहने तं मुक्त्वा तेऽन्यत्रोपाययुः, अत्रान्तरे प्रातरेव स्नातुं परिव्राजकस्तडागमुपाजगाम्, दृष्टश्च तेन सर:समीपवर्त्तिन्यां
जाल्यामसौ तुरगः प्रत्यभिज्ञातश्च । अये ! सोऽयमश्वो सोऽस्माकमुपकारिणो भागवतस्य तस्करैरपतः । तेन गत्वा स्वमावासमग्रे ।।१८५।।
गृहपतिपुरुषाणामुक्तं यथा-मम स्नातुं सरसीं गतस्य जाल्यां धौतवासो विस्मृतं ततश्चाकथि । ततस्तैः पुमान् प्रहितः, तेन च तत्र गतेन दृष्टोऽसौ वाजी समानीतश्च कथितो गृहपतये । ततस्तेन समचिन्ति-अये ! व्याजेन वतिना ममोपकारः कृतः, तत्कथमहं निर्व्याजदानफलं विहाय प्रत्युपकारेण दानप्रवृत्तिं विदधामीति सम्प्रधार्य गदितोऽसौ परिव्राजक:-भद्र ! व्रज त्वमिदानीम्, न कृतोपकारिणे भवते तप्ति | विधास्यामि, यस्मादुपकारिणि विहितं दानं निष्फलमुपजायते, इत्येष मुधादायीति । मुधाजीविन्युदाहरणमुच्यते-कश्चिन्नरपतिरनित्यतां विलोक्य प्रियाणामपि पुत्रकलत्रपौत्रादीनामुपजातवैराग्यो धर्माधर्मपरीक्षां चक्रे । " को वा अणिविट्ठ भुंजड़" ततस्तं परीक्षयामीति सम्प्रधार्य पुरुषानादिदेश-यथा राजा मोदकान् प्रयच्छति समागत्य गृह्यताम् । इति समाकर्योद्घोषणामुपाजग्मुः कार्पटिकप्रभृतयोऽर्थिजनाः । पृष्टाश्च ते भूभुजा-केन भवन्तो जीवथ ? तत्रैकेनोक्तम्-अहं तावन्मुखेन, अपरेण गदितम्-अहं पादाभ्याम्, अपरेणोक्तम्-अहं हस्ताभ्याम्, अन्येन निवेदितम्-अहं लोकानुग्रहेण, क्षुल्लकसाधुनोक्तम्-अहं मुधिकयेति । ततस्तान्नरपतिः पुनर्जगाद-कथमिव ? इति ततः प्रथमो जगाद-अहं तावत्कथको जनानां विस्तार्य रामायणादिकथां कथयामि, तेन मुखेन जीवामीति । द्वितीयः प्राह-अहं लेखवाहको घटिकामध्ये योजनं लङ्घयामि, तेन पादाभ्यां जीवामीति । तृतीयः प्राह-अहं हि लेखकोऽतो हस्ताभ्यां जीवामि । भिक्षुणोक्तम् अहं प्रवजितः, अतो लोकानामनुग्रहेण । क्षुल्लकसाधुनोक्तम्-प्रवजितो जन्मजरामरणरोगशोकायुपद्रवशतोपद्रुतं, दारिद्र्यदौर्भाग्यकलङ्कवातकलुषितं, इष्टवियोगानिष्टसंयोगदुःखजनितव्यसनशतनिलयं, क्षुधापिपासाशीतोष्णक्लेशसहस्रसङ्कलं, दैन्यचिन्ताजरादिभिः क्षणमष्यमुक्तसमीपं संसारं ॥१८५।। विलोक्य ततो निर्विण्णः प्रतिपद्यामुं शरीरमानसानेकदुःखजलधिविलङ्घनसेतुं, सौभाग्यसौजन्योदार्योपकारकारणप्रतिनिष्ट, ज्ञानविज्ञानजनकं, Mel