________________
विचार
रत्नाकरः
1199211
33
जनकराजपुत्री गीयते । वसुदेवहिंडि १ खंडे तु मन्दोदरीरावणयोः ।। २६ ।। हेमाचार्यकृतनेमिचरित्रशत्रुञ्जयमाहात्म्यशीलतरङ्गिण्यादिग्रन्येषु द्रौपद्याः सुकुमालिकाभवे अष्टमासिकी संलेखना सौधर्मदेवलोकगमनं च । ज्ञातायां तु अर्द्धमासिकी संलेखना ईशानदेवलोकगमनं च ॥ २७ ॥ कल्पे वीरस्य दीक्षापर्याय: ४२ वर्षाणि । समवायाङ्गे तु साधिकानि ॥ २८ ॥ तथा “ तावदावसथद्वारे, राजसूनोरुपायने । चिच्चक्रिरे कुम्भा:, नवेक्षुरससम्भृताः ।। २६१ ॥ श्रेयांसो जातिस्मरणाद्भिक्षादोषोज्झितं रसम् । मत्वा कल्प्यममुं स्वामिन् !, गृहाणेत्यभ्यधात् प्रभुम् ।। २६२ ॥ प्रभुणाऽप्यञ्जलीकृत्य, पाणिपात्रे पुरोधृते । स रसं कलशश्रेण्याश्चिक्षेपेक्षुसमुद्भवम् ॥ २६३ ॥ इत्यमरकविकृतपद्मानन्दकाव्ये त्रयोदशे सर्गे । हैमऋषभचरित्रेऽपि " अत्रान्तरे कुमारस्य, प्राभृते केनचिन्मुदा । नवेक्षुरससम्पूर्णाः, ठौकयाञ्चक्रिरे घटाः ॥ ९० ॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः स तु गृह्यतां कल्पनीयोऽयं, रस इत्यवदद्विभुम् ॥ ९१ ॥ प्रभुणाऽप्यञ्जलीकृत्य, पाणिपात्रमधारयन् । उत्क्षिप्योत्क्षिप्य सोऽपीक्षुरसकुम्भानलोठयत् ।। ९२ ।। " आवश्यकचूर्णौ तु " सयं चेव खोयरसघडगं गहाय दव्वसुद्धेणं दायगसुद्धेणं पडिग्गाहसुद्धेणं तिविहेणं तिगरणसुद्धेणं दाणेणं पडिलाभेस्सामि त्ति ” ॥ २९ ॥ चत्तारि पंच जोयणसयाई यमलोस । उड्ड वच्चइ जेणं, न हु देवा तेण आवंति ” । इति सङ्ग्रहण्याम् । उपदेशमालाकर्णिकावृत्तौ तु " ऊर्ध्वगत्या शतान्यष्टौ सहस्रमपि कर्हिचित् । मर्त्यानां याति दुर्गन्धस्तेनेहायान्ति नामराः ॥ ४१ ॥ ॥ ३० ॥ अनन्तनाथस्येह चतुःपञ्चाशद्गणा गणधराचोक्ताः । आवश्यके तु पञ्चाशदुक्तास्तदिदं मतान्तरमिति समवायाङ्गवृत्तौ ॥ विमलस्येह षट्पञ्चाशद्गणा गणधराचोक्ताः आवश्यके तु सप्तपञ्चाशत्तदिदं मतान्तरमित्यपि समवायाङ्गवृत्तौ ॥ ३१ ॥ 'अणुत्तरोववातियदेवा णं भंते ! केवतियं खेत्तं ओहिणा जाणंति ? पासंति ? गोयमा ! संभिण्णलोगनालिं ओहिणा जाणंति पासंति" इति । वृत्तिर्यथा-' संभिण्णलोगनालिं' इति परिपूर्णचतुर्दशरज्ज्वात्मिकां लोकनाडीम् । इति प्रज्ञापना ३३ पदे सावचूरौ ४८४ पत्रे ।। सङ्ग्रहण्यां तु “ छट्ठि छग्गेविज्जा, सत्तमियरे अणुत्तरसुराओ । किंचूणलोगनालिं, पासंति अणुत्तरा देवा ॥ १ ॥ " ॥ ३२ ॥ तथा “ छव्वरिसो पव्वइओ, निग्गंथो रोइऊण जिणवयणं । सिद्धं विहूअरयमलं, अइमुत्तरिसिं नम॑सामि । इति श्रीऋषिमंडले । अस्यावचूर्णौ तु श्रीवीरान्तिके प्रव्रज्याष्टवार्षिकोऽतिमुक्तकर्षिः शिवं प्राप्तः । लघुवृत्तौ तु चतुर्वर्षवया अपि प्रवया इव व्रतस्वीकारादिति ॥ ३३ ॥ आवश्यकलघुवृत्तौ तिलकाचार्येण चतुर्विंशतिजिनप्रतिमा
35
66
शास्त्र
मतान्तराणि
11969211