________________
विचाररत्नाकरः। 88
1190911
।
I
मनःपर्यवज्ञानिनाम् समवायाङ्गे तु सप्तपञ्चाशच्छतानि ॥ २१ ॥ तथा कल्पसूत्रे वीरस्यायुर्द्धासप्ततिवर्षाणि । समवायाङ्गे तु वीरस्यायुर्द्धासप्ततिवर्षाणि साधिकानीति ।। २२ ।। तथा " सम्बोध्यैवं ददौ प्रज्ञप्तिप्रमुखां तयोः । अष्टचत्वारिंशद्विद्यासहस्री पाठसिद्धिदाम् ।। १७० ।। इति श्रीहैमऋषभचरित्रे तृतीयसर्गे । आवश्यकनियुक्तिहारिभद्रीवृत्तावपि " नमिविनमीणं जायण, नागिंदो विज्जदाण वेयड्ढे । उत्तरदाहिणसेठी ” । अक्षरगमनिका नमिविनमिनोर्याचना नागेन्द्रो भगवद्वन्दनायायातस्तेन विद्यादानमनुष्ठितं वैताढ्यपर्वते उत्तरश्रेणिदक्षिणश्रेण्योर्यथायोगं षष्ठिपञ्चाशन्नगराणि निविष्ठानिती गाथाऽक्षरार्थः । भावार्थ:- कथानकादवसेयः । तच्चेदम्- " अण्णया धरणो णागराया भगवंतं वंदिउमागओ, इमेहि य विण्णवियं तओ सो ते तहा जायमाणे भणति भगवं चत्तसंगो ण एयस्स अस्थि किंचि दायव्वं, मा एयं जाएह, अहं तुब्भं भगवओ भत्ती देमि, सामिसेवा अफला मा भवउ त्ति काउं पढियसिद्धाणं गंधव्वपण्णगाणं अडयालीसं विज्जासहस्साइं गिन्हह, ताण इमाओ चत्तारि महाविज्जाओ तंजहा- गोरी १ गंधारी २ रोहिणी ३ पण्णत्ती । आवश्यकचूर्णावपि " अडयालीसं विज्जासहस्साइं देमि । " अष्टचत्वारिंशद्वद्या सहस्राणि तयोरदात् । उपदेशमालाकर्णिकायामपि " प्रज्ञप्तिमुख्याः प्रीतेन, फणीन्द्रेरण तयोर्ददे । पाठसंसिद्धविद्याष्टचत्वारिंशत्सहस्र्थ ।। १ ।। " उपदेशसित्तरीवृत्तौ तु त्रयोदशोपदेशे “ अवादीद्धरणो नाहं, पथिकः किं तु नागराट् । राज्यादिदाता याचेथां तद्युवां यद्विलोक्यते ॥ २० ॥ त्रैलोक्यं यच्छसि त्वं चेन्न कार्यं तदपि त्वया । यदि दास्यति तद्दाता, स्वाम्येव खलु नापर: ॥ २१ ॥ भक्तिस्थैर्यमिति ज्ञात्वाऽवातरत्स्वामिनो मुखे । तुष्टो भवद्धयोमेषोऽहं साम्राज्यं गृह्यतामिदम् ॥ २२ ॥ इति प्रोच्य स वैताढ्याधिपत्यं प्रददे तयोः । अष्टघ्नषट्सहस्राणि प्रौढविद्याश्च विश्रुताः ।। २३ ।। ” वृद्धशत्रुञ्जयमाहात्म्यतृतीयसर्गे तु " सेवावहे न भरतं, प्रतिज्ञायेति तौ ततः । असेवितां विभुं पार्श्वद्वये कृष्टासिधारिणो ॥ ५८० ॥ पातालविभुरन्येद्युर्धरणेन्द्रः परीक्षणात् । अत्यन्तं तातपादेषु, तावज्ञासीत्सुभक्तिकौ ॥ ५८१ ॥ विद्याः षोडशसहस्राण्यदाद्वैताढ्यपर्वते । दक्षिणोत्तरश्रेण्याश्च, राज्यं ताभ्यां मुदा सह ॥ ५८२ ॥ ” अत्र केचिद्विद्यानामष्टचत्वारिंशत्सहस्राणि, केचित् षोडश सहस्राणि, केचिद्धरणेन्द्रेण स्वयं विद्या: प्रदत्ता: केचिच्च भगवन्मुखेऽवतीर्येति मतद्वयमवसेयम् ।। २३ ।। २४ ।। हरिभद्रसूरिकृतदशवैकालिकवृत्तौ हैमचरित्रे नवपदप्रकरणवृत्तौ च चक्रिणः सप्तम्यामेव गच्छन्तीत्युक्तम् । भगवतीद्वादशशतकनवमोद्देशकाभिप्रायेण तु सप्तस्वपि नरकेषु गच्छन्तीति ॥ २५ ॥ तथा पद्मचरित्रे सीता
အာာာာာ 3333
।।१७१||