________________
विचार- रत्नाकरः
119४७॥
प्रथमैकवचनलोपो द्रष्टव्यः, तथा पज्जरादुन्मीलितमिव बहिष्कृतमिव पज्जरोन्मीलितम्, यथा हि किल किमपि वस्तु पज्जरात्वंशादिमयप्रच्छादनविशेषाबहिष्कृतमत्यन्तमविनष्टच्छायत्वाच्छोभते एवं तदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं यस्य तन्मणिकनकस्तूपिकाकम्, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाच भित्त्यादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्रं विकसितशत-पत्रपुण्डरीकतिलकार्द्धचन्द्रचित्रम्, तथाऽन्तर्बहिश्च श्लक्ष्णं-मसृणमित्यर्थः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तट:-प्रतरो यत्र तत्तपनीयवालुकाप्रस्तटम्, तथा सुखस्पर्श शुभस्पर्श वा, तथा सश्रीकाणिसशोभानि रूपाणि नरयुग्मादीनि यत्र तत्सश्रीकरूपम्, तथा प्रासादीयं-मनःप्रसादहेतुः, अत एव दर्शनीयं-द्रष्टुं योग्यम्, तद्दर्शनेन तृप्तेरसम्भवात्, तथा प्रतिविशिष्टं-असाधारणरूपं यस्य तत्तथा । इति श्रीचन्द्रप्रज्ञप्त्यष्टादशप्राभृतसूत्रवृत्तौ ४८ पत्रे ॥ १॥
केचिदज्ञानिन एवं प्रलपन्ति-यत्तीर्थङ्करा हि भगवन्तोऽर्हन्तोऽनुत्तरज्ञानदर्शनचारित्राधारत्वात्पूज्याः, तत्प्रतिमास्तु ज्ञानादिशून्यास्तत्किमर्थमर्चनीयाः, न हि नृपमूर्त्तिरन्यायिदण्डसुजनपालनादिनृपव्यापारसमर्था भवति चैतन्यशून्यत्वादिति, परं तत्तेषामनन्तसंसारकारणम्, यतो ज्ञानादिशून्यानामपि भगवत्सक्थ्यां सुरैर्भगवद्वदनुमतत्वात्, भगवत्सम्बन्धित्वादिति चेत्तुल्यं प्रतिमायामपि । तच्चेदम्
पभू णं भंते ! चंदे जोइसिंदे जोइसराया चंदवहिंसए विमाणे सभाए सुहम्माए चंदंसि सिंहासणंसि तुडिएणं सद्धिं दिव्वाई भोगभोगाई भुंजमाणे विहरित्तए ? गोयमा ! नो इणढे समटे, ता कहं ते नो पभू चंदे जोइसिंदे जाव विहरित्तए ? गोयमा ! ता चंदस्स
णं जोइसिंदस्स जोइसरनो चंदवडिंसए विमाणे सभाए सुहम्माए माणवए चेइयखंभे वइरामएसु गोलवट्टसमुग्गएसु बहुओ जिसकहाओ o सन्निखित्ताओ चिट्ठति ताओ णं चंदस्स जाव रन्नो अन्नेसिं च बहूणं जोइसियाणं देवाण य देवीण य अच्चणिज्जाओ वंदणिज्जाओ
पूयणिज्जाओ सक्कारणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जाओ एवं खलु नो पभू चंदे जोइसिंदे जोइसराया चंदवसिए विमाणे सभाए सुहम्माए तुडिएण सद्धिं दिव्वाइं भोगभोगाइ भुंजमाणे विहरित्तए ।। इति । वृत्तिर्यथा-' पभू णं भंते ! चंदे ' इत्यादि, प्रश्नसूत्रं सुगमम्, भगवानाह-' नो इणढे समढे' इत्यादि नायमर्थः समर्थ:-उपपन्नो न युक्तोऽयमर्थ इत्यर्थः, यथा चन्द्रावतंसकविमाने या सुधर्मा सभा तस्यामन्तःपुरेण सार्दू, दिव्यान् भोगभोगान् भुजानो विहरतीति, ‘ता कहं ते नो पभू' इत्यादि
888888888
||१४७||