________________
8
विचार- वाऊ विजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जालंतररयण पंजरुम्मिलियब्व मणिकणगथूभियागे / चन्द्रप्रज्ञप्तिरनाकरःनि वियसियसयवत्तपुंडरीयतिलगरयणड्ढचंदचित्ते अंतो बहिं च सण्हे तवणिज्जवालुगापत्थडे सुहफासे सस्सिरीयरूवे पासाइए दरसणिज्जे
विचाराः अभिरूवे पडिरूवे ॥ इति । वृत्तिर्यथा-' ता चंदविमाणे णं' इत्यादि, संस्थानविषयं प्रश्नसूत्रं सुगमम्, भगवानाह-'ता अद्धकविट्ठ' इत्यादि, उत्तानीकृतमर्द्धमात्रं कपित्थं तस्येव यत्संस्थानं तेन संस्थितं अर्द्धकपित्थसंस्थानसंस्थितम्, आह-यदि चन्द्रविमानमुत्तानीकृतार्द्धमात्र
कपित्थफलसंस्थानसंस्थितं तत उदयकालेऽस्तमनकाले वा यदिवा तिर्यग्परिभ्रमत्पौर्णमास्यां कस्मात्तदर्द्धकपित्थफलाकारं नोपलभ्यते कामं 1१४६|| शिरस उपरि वर्तमानं वर्तुलमुपलभ्यते ? अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्तुलतया दृश्यमानत्वादुच्यते
इहार्द्धकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं किं तु तस्य चन्द्रविमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्य
ज्योतिश्चक्रराजस्य-प्रासादस्तथा कथञ्चनापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुल आकारो भवति, स च दूरभावादेकान्ततः Pal समवृत्ततया जनानां प्रतिभासते ततो न कश्चिद्दोषः, न चैतत्स्वमनीषिकायां विजृम्भितं, यतः एतदेव श्रीजिनभद्रगणिक्षमाश्रमणेन
विशेषणवत्यामाक्षेपपुरस्सरमुक्तम्- “ अद्धकविट्ठागारा, उदयत्थमणंमि कह न दीसंति । ससिसूराण विमाणा, तिरियक्खेत्तट्ठियाणं च ॥१॥ आउत्ताणद्धकविठ्ठागारं पीठं तदुवरिं च पासाओ । वट्टालेखेण तओ, समवढें दूरभावाओ ॥ २॥" तथा सर्वं निरवशेष स्फटिकमय-स्फटिकविशेमणिमयम्, तथा अभ्युद्गता आभिमुख्येन सर्वतो विनिर्गता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा-दीप्तिः तया सितं-शुक्लं अभ्युद्गतोत्सितप्रभासितम्, तथा विविधा-अनेकप्रकारा मणयः चन्द्रकान्तादयो रत्नानि-कर्केतनादीनि तेषां भक्तयोविच्छित्तिविशेषास्ताभिश्चित्रं-अनेकरूपवत् आश्चर्यवद्वा विविधमणिरत्नचित्रम्, वातोद्धता-वातकंपिता विजयो-अभ्युदयस्तत्सूचिका वैजयन्त्यभिधाना या पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताका:-ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि च-उपर्युपरि स्थितातपत्राणि तैः कलितं ततो वातोद्भुतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलितं तुड्ग-उच्चमत एव 'गगणतलमणुलिहंतसिहरे' ति गगनतलं-अम्बरतलमनुलिखत्-अभिलड्डयच्छिखरं यस्य तद् गगनतलानुलिखच्छिखरम्, तथा 11१४६॥ जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तज्जालान्तररत्नम् सूत्रे चात्र leel