________________
विचार- | पूर्वस्या, क्षुल्लहिमवतो वर्षधरस्य दाक्षिण्यात्ये नितम्बे, सामीप्यकसप्तम्या नितम्बासन्ने इत्यर्थः, अत्र प्रदेशे जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते है रत्नाकरः
वर्षे ऋषभकूटो नाम्ना पर्वतः प्रज्ञप्तः, अष्टौ योजनान्यूोच्चत्वेन, द्वे योजने उद्वेधेन-भूमिप्रवेशेन, उच्चत्वचतुर्थांशस्य भूम्यवगाढत्वात्, अष्टानां च चतुर्थांशे द्वयोरेव लाभात्, मूलमध्यान्तेषु क्रमादष्टषट्चत्वारि योजनानि विष्कम्भेन-विस्तरेण उपलक्षणत्वादायामेनापि समवृत्तस्यायामविष्कम्भयोस्तुल्यत्वादिति, तथा मूलमध्यान्तेषु पञ्चविंशतिरष्टादश द्वादश च योजनानि सातिरेकाणि परिक्षेपेण-परिधिना, अथास्य
पाठान्तरं वाचनाभेदस्तद्गतपरिमाणान्तरमाह-मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टयोजनानि विष्कम्भेन, उपरि चत्वारि योजनानि ||१४५।।
विष्कम्भेन, अत्रापि विष्कम्भायामतः साधिकत्रिगुणं मूलमध्यान्तरपरिधिमानं सूत्रोक्तं सुबोधम् । अत्राह परः- एकस्य वस्तुनो विष्कम्भादि परिमाणे द्वैरूप्यासम्भवेन प्रस्तुतग्रन्थस्य च सातिशयस्थविरप्रणीतत्वेन कथं नान्यतरनिर्णयः ? यदेकस्यापि ऋषभकूटपर्वतस्य मूलादावष्टादियोजनविस्तृतत्वादि पुनस्तत्रैवास्य द्वादशयोजनविस्तृतत्वादीति, सत्यं, जिनभट्टारकाणां सर्वेषां क्षायिकज्ञानवतामेकमेव मतं मूलतः, पश्चात्तु कालान्तरेण विस्मृत्यादिनाऽयं वाचनाभेदः, यदुक्तं श्रीमलयगिरिसूरिभिर्योतिष्करण्डकवृत्तौ-" इह स्कन्दिलाचार्यप्रवृत्तौ दुःषमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनशत् । ततो दुर्भिक्षातिक्रमे, सुभिक्षप्रवृत्ती, द्वयोः सङ्घमेलापकोऽभवत्, तद्यथा-एको | वल्लभ्यामेको मथुरायाम्, तत्र सूत्रार्थसङ्घट्टने परस्परं वाचनाभेदो जातः, विस्मृतयोर्हि सूत्रार्थयोः स्मृत्वा स्मृत्वा सङ्घट्टने भवत्यवश्यं वाचनाभेदः” इत्यादि । ततोऽत्रापि दुष्करोऽन्यतरनिर्णयः, द्वयोः पक्षयोरुपस्थितयोरनतिशायिज्ञानिभिरनभिनिविष्टमतिभिः प्रवचनाशातनाभीरुभिः पुण्यपुरुषैरिति न काचिदनुपपत्तिः । इति जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्तौ प्रथमवक्षस्कारे ३८७ प्रतौ ६६ पत्रे ॥२॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालस लातिशालिशीलजगद्गुरुभट्टारकरीहीरविजयसूरीश्वरशिष्योपाध्याय
श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरेऽपरतटे जंबूद्वीपप्रज्ञप्तिविचारनामा पञ्चमस्तरङ्गः ॥५॥
सर्वज्ञभाषितार्थाय, समर्थाय तमोव्यये । अव्ययाय नमो नित्यं, सिद्धान्ताय जिनेशितुः ॥ १॥ अथ परिपाट्यायाताः श्रीचन्द्रप्रज्ञप्तिविचारा यथा-तत्र चन्द्रविमानसंस्थानादिजिज्ञासया लिख्यतेता चंदविमाणेणं किं संठिए पण्णत्ते ? ता अद्धकविद्गसंठाणसंठिए सव्वफलियामए अब्भग्गयमसियपहसिए । विविहमणिरयणभत्तिचित्ते ael
१४५।।