________________
विचार- | चित्रं, विचित्रा कर्मणां गतिः । मलिनत्वं च कामानां, वृत्तिः पर्यन्तदारुणा ॥ १॥” इति गाढानुरागादिहागत्य नकुलोपगूढां तां
परिष्वज्य तदवाच्यप्रदेशे स्वावाच्यप्रदेशं प्रक्षिप्यातीव मूर्छितः स्वायुःक्षयात्कालं कृत्वा यदा तस्या एव गर्भे मनुष्यबीजे मनुष्यत्वेनोत्पद्यते, मनुष्यबीजं च जघन्यतोऽन्तर्मुहूर्त्त उत्कृष्टतो द्वादश मुहूर्तान् यावदवतिष्ठते, उक्तं च-" मणुस्सबीए णं भंते ! कालतो केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारस मुहुत्ता" इति । ततो द्वादशमुहूर्ताभ्यन्तरे उपभुक्तां परिष्वज्य मृतस्य तत्रैवोत्पत्तिर्मनुष्यत्वेन
द्रष्टव्या, उत्कर्षतोऽधो यावदधोलौकिका ग्रामाः, तिर्यग् यावन्मनुष्यक्षेत्रं, उद्धर्वं यावदच्युतक्ल्पस्तावदवसैया, कथं इति चेत् ? उच्यते-इह ||१४१1180
यदाऽऽनतदेवः कस्याप्यन्यस्य देवस्य निश्रया अयुतकल्पं गतो भवति, स च तत्र गतः सन् कालं कृत्वाऽधोलौकिकग्रामेषु यदि वा मनुष्यa क्षेत्रपर्यन्ते मनुष्यत्वेनोत्पद्यते तदा लभ्यते । इति । श्रीप्रज्ञापनैकविंशतितमपदसूत्रवृत्तौ ५३२ प्रतौ ४०१ पत्रे ॥ ९॥
अथ यः केवलिशरीराज्जीवविराधनामवश्यंभाविनीमपि सर्वथा न स्वीकृरुते तं प्रत्युच्यते-अरे भद्रक ! त्वया तावदुच्यते केवलि हि I श्वासोच्छ्वासनिमेषोन्मेषादिकमपि तत्रैव कुरुते यत्राचित्ता वायुकायादयः स्युः, यद्ययमेवं नियमः स्यात्तदा मार्गेऽपि निर्जीवे एव
गच्छत्ययमपि नियमः स्यात् तथा च न दृश्यते, यतः केवली मार्गे गच्छंस्वसाकुलां भूमिमवलोक्य जन्तुरक्षानिमित्तमुल्लङ्घनप्रलङ्घनादिकमपि करोतीति शास्त्रेऽभिहितम्, ततोऽवसीयतेऽचित्तवायुकायादावेव श्वासोच्छ्वासादिकं कुर्यादयमपि नियमो नास्ति, निर्जीवे एव अचित्तजल एव मार्गे गच्छत्ययमपि नियमोऽनैकान्तिक एवासैद्धान्तिकश्च, केवलं काययोगव्यापारपाल्यजीवरक्षायै उल्लङ्घनप्रलडनादिकं कायव्यापार करोति । अशक्यरक्षांस्तु तान् जानन्नपि चलोपकरणतया किं करोतु ? किञ्च-त्रसाकुलां भूमिमवलोक्य उल्लङ्घनप्रलङ्घनादिकं कायव्यापारं
कुर्यादित्यत्रैवं त्रसरक्षैव कृता भवति, नतु जलाधाकुले मार्गे स्थावराणामिति त्रसग्रहणमित्यलं प्रसङ्गेन वृद्धवाक्यमेव प्रमाणम् । केवलिनामुlal ल्लङ्घनप्रलङ्घनापिव्यापारविषये सूत्रवृत्ती यथा
से णं भंते ! तहा समुग्घायगए सिज्झति बुज्झइ मुच्चति परिनिव्वाति सव्वदुक्खाणमंतं करोति ? गोयमा ! नो इणढे समढे, से णं ततो पडिनियत्तति पडिनियतित्ता ततो पच्छा मणजोगपि सृजति वयजोगंपि सृजति कायजोगंपि सृजति ॥ इति । वृत्तिर्यथा-' से णं भंते !' इत्यादि, स भदन्त ! केवली तथा दण्डकपाटादिक्रमेण समुद्घातं गतः सन् सिद्ध्यति-निष्ठितार्थो भवति, स च वर्तमानसामीप्ये
||१४१॥